प्रश्नः 1 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 5.1.4.3 TS 5.1.4.3
शु॒चाऽर्प॑यति॒ तस्मा᳚थ् स॒माव॑त् पशू॒नां प्र॒जाय॑मानाना-मार॒ण्याः प॒शवः॒ कनी॑याꣳसः शु॒चा ह्यृ॑ता लो॑म॒तः संभ॑र॒त्यतो॒ ह्य॑स्य॒ मेद्ध्यं॑ कृष्णाजि॒नं च॑ पुष्करप॒र्णं च॒ सꣳ स्तृ॑णाती॒यं ॅवै कृ॑ष्णाजि॒नम॒सौ पु॑ष्करप॒र्ण-मा॒भ्या-मे॒वैन॑-मुभ॒यतः॒ परि॑गृह्णात्य॒-ग्निर्दे॒वेभ्यो॒ निला॑यत॒ तमथ॒र्वा-ऽन्व॑पश्य॒दथ॑र्वा त्वा प्रथ॒मो निर॑मन्थदग्न॒ इत्या॑ - [ ]
पदपाठः (Word-by-word)
शु॒चा । अ॒र्प॒य॒ति॒ । तस्मा᳚त् । स॒माव॑त् । प॒शू॒नाम् । प्र॒जाय॑मानाना॒मिति॑ प्र-जाय॑मानानाम् । आ॒र॒ण्याः । प॒शवः॑ । कनी॑याꣳसः । शु॒चा । हि । ऋ॒ताः । लो॒म॒तः । समिति॑ । भ॒र॒ति॒ । अतः॑ । हि । अ॒स्य॒ । मेद्ध्य᳚म् । कृ॒ष्णा॒जि॒नमिति॑ कृष्ण - अ॒जि॒नम् । च॒ । पु॒ष्क॒र॒प॒र्णमिति॑ पुष्कर - प॒र्णम् । च॒ । समिति॑ । स्तृ॒णा॒ति॒ । इ॒यम् । वै । कृ॒ष्णा॒जि॒नमिति॑ कृष्ण - अ॒जि॒नम् । अ॒सौ । पु॒ष्क॒र॒प॒र्णमिति॑ पुष्कर - प॒र्णम् । आ॒भ्याम् । ए॒व । ए॒न॒म् । उ॒भ॒यतः॑ । परीति॑ । गृ॒ह्णा॒ति॒ । अ॒ग्निः । दे॒वेभ्यः॑ । निला॑यत । तम् । अथ॑र्वा । अन्विति॑ । अ॒प॒श्य॒त् । अथ॑र्वा । त्वा॒ । प्र॒थ॒मः । निरिति॑ । अ॒म॒न्थ॒त् । अ॒ग्ने॒ । इति॑ ।
पदसंख्या: 50