-नꣳ॒॒ सꣳ सृ॑जति॒ शान्त्यै॒ यद्ग्रा॒म्याणां॒ पात्रा॑णां क॒पालैः᳚ सꣳसृ॒जेद्-ग्रा॒म्याणि॒ पात्रा॑णि शु॒चाऽर्प॑येदर्मकपा॒लैः सꣳ सृ॑जत्ये॒तानि॒ वा अ॑नुपजीवनी॒यानि॒ तान्ये॒व शु॒चाऽर्प॑यति॒ शर्क॑राभिः॒ सꣳ सृ॑जति॒ धृत्या॒ अथो॑ श॒त्वांया॑ जलो॒मैः सꣳ सृ॑जत्ये॒षा वा अ॒ग्नेः प्रि॒या त॒नूर्यद॒जा प्रि॒ययै॒वैनं॑ त॒नुवा॒ सꣳ सृ॑ज॒त्यथो॒ तेज॑सा कृष्णाजि॒नस्य॒ लोम॑भिः॒ सꣳ - [ ]
पदपाठः (Word-by-word)
ए॒न॒म् । समिति॑ । सृ॒ज॒ति॒ । शान्त्यै᳚ । यत् । ग्रा॒म्याणा᳚म् । पात्रा॑णाम् । क॒पालैः᳚ । सꣳ॒॒सृ॒जेदिति॑ सं - सृ॒जेत् । ग्रा॒म्याणि॑ । पात्रा॑णि । शु॒चा । अ॒र्प॒ये॒त् । अ॒र्म॒क॒पा॒लैरित्य॑र्म-क॒पा॒लैः । समिति॑ । सृ॒ज॒ति॒ । ए॒तानि॑ । वै । अ॒नु॒प॒जी॒व॒नी॒यानीत्य॑नुप - जी॒व॒नी॒यानि॑ । तानि॑ । ए॒व । शु॒चा । अ॒र्प॒य॒ति॒ । शर्क॑राभिः । समिति॑ । सृ॒ज॒ति॒ । धृत्यै᳚ । अथो॒ इति॑ । श॒न्त्वायेति॑ शं - त्वाय॑ । अ॒ज॒लो॒मैरित्य॑ज-लो॒मैः । समिति॑ । सृ॒ज॒ति॒ । ए॒षा । वै । अ॒ग्नेः । प्रि॒या । त॒नूः । यत् । अ॒जा । प्रि॒यया᳚ । ए॒व । ए॒न॒म् । त॒नुवा᳚ । समिति॑ । सृ॒ज॒ति॒ । अथो॒ इति॑ । तेज॑सा । कृ॒ष्णा॒जि॒नस्येति॑ कृष्ण - अ॒जि॒नस्य॑ । लोम॑भि॒रिति॒ लोम॑ - भिः॒ । समिति॑ ।