सृ॑जति य॒ज्ञो वै कृ॑ष्णाजि॒नं ॅय॒ज्ञेनै॒व य॒ज्ञ्ꣳ सꣳ सृ॑जति रु॒द्राः स॒भृंत्य॑ पृथि॒वीमित्या॑है॒ता वा ए॒तं दे॒वता॒ अग्रे॒ सम॑भर॒न् ताभि॑रे॒वैनꣳ॒॒ संभ॑रति म॒खस्य॒ शिरो॒ऽसीत्या॑ह य॒ज्ञो वै म॒खस्तस्यै॒त-च्छिरो॒ यदु॒खा तस्मा॑दे॒वमा॑ह य॒ज्ञ्स्य॑ प॒दे स्थ॒ इत्या॑ह य॒ज्ञ्स्य॒ ह्ये॑ते - [ ]
पदपाठः (Word-by-word)
सृ॒ज॒ति॒ । य॒ज्ञ्ः । वै । कृ॒ष्णा॒जि॒नमिति॑ कृष्ण - अ॒जि॒नम् । य॒ज्ञेन॑ । ए॒व । य॒ज्ञ्म् । समिति॑ । सृ॒ज॒ति॒ । रु॒द्राः । स॒भृंत्येति॑ सं - भृत्य॑ । पृ॒थि॒वीम् । इति॑ । आ॒ह॒ । ए॒ताः । वै । ए॒तम् । दे॒वताः᳚ । अग्रे᳚ । समिति॑ । अ॒भ॒र॒न्न् । ताभिः॑ । ए॒व । ए॒न॒म् । समिति॑ । भ॒र॒ति॒ । म॒खस्य॑ । शिरः॑ । अ॒सि॒ । इति॑ । आ॒ह॒ । य॒ज्ञ्ः । वै । म॒खः । तस्य॑ । ए॒तत् । शिरः॑ । यत् । उ॒खा । तस्मा᳚त् । ए॒वम् । आ॒ह॒ । य॒ज्ञ्स्य॑ । प॒दे इति॑ । स्थः॒ । इति॑ । आ॒ह॒ । य॒ज्ञ्स्य॑ । हि । ए॒ते इति॑ ।