प॒दे अथो॒ प्रति॑ष्ठित्यै॒ प्रान्याभि॒-र्यच्छ॒त्यन्व॒न्यै-र्म॑न्त्रयते मिथुन॒त्वाय॒ त्र्यु॑द्धिं करोति॒ त्रय॑ इ॒मे लो॒का ए॒षां ॅलो॒काना॒माप्त्यै॒ छन्दो॑भिः करोति वी॒र्यं॑ ॅवै छन्दाꣳ॑सि वी॒र्ये॑णै॒वैनां᳚ करोति॒ यजु॑षा॒ बिलं॑ करोति॒ व्यावृ॑त्त्या॒ इय॑तीं करोति प्र॒जाप॑तिना यज्ञ्मु॒खेन॒ संमि॑तां द्विस्त॒नां क॑रोति॒ यावा॑पृथि॒व्योर्दोहा॑य॒ चतुः॑स्तनां करोति पशू॒नां दोहा॑या॒ष्टास्त॑नां करोति॒ छन्द॑सां॒ दोहा॑य॒ नवा᳚श्रि-मभि॒चर॑तः ( ) कुर्यात् त्रि॒वृत॑मे॒व वज्रꣳ॑ स॒भृंत्य॒ भ्रातृ॑व्याय॒ प्रह॑रति॒ स्तृत्यै॑ कृ॒त्वाय॒ सा म॒हीमु॒खामिति॒ नि द॑धाति दे॒वता᳚स्वे॒वैनां॒ प्रति॑ष्ठापयति ॥
पदपाठः (Word-by-word)
प॒दे इति॑ । अथो॒ इति॑ । प्रति॑ष्ठित्या॒ इति॒ प्रति॑ - स्थि॒त्यै॒ । प्रेति॑ । अ॒न्याभिः॑ । यच्छ॑ति । अन्विति॑ । अ॒न्यैः । म॒न्त्र॒य॒ते॒ । मि॒थु॒न॒त्वायेति॑ मिथुन - त्वाय॑ । त्र्यु॑द्धि॒मिति॒ त्रि - उ॒द्धि॒म् । क॒रो॒ति॒ । त्रयः॑ । इ॒मे । लो॒काः । ए॒षाम् । लो॒काना᳚म् । आप्त्यै᳚ । छन्दो॑भि॒रिति॒ छन्दः॑-भिः॒ । क॒रो॒ति॒ । वी॒र्य᳚म् । वै । छन्दाꣳ॑सि । वी॒र्ये॑ण । ए॒व । ए॒ना॒म् । क॒रो॒ति॒ । यजु॑षा । बिल᳚म् । क॒रो॒ति॒ । व्यावृ॑त्त्या॒ इति॑ वि - आवृ॑त्त्यै । इय॑तीम् । क॒रो॒ति॒ । प्र॒जाप॑ति॒नेति॑ प्र॒जा - प॒ति॒ना॒ । य॒ज्ञ्॒मु॒खेनेति॑ यज्ञ्-मु॒खेन॑ । संमि॑ता॒मिति॒ सं - मि॒ता॒म् । द्वि॒स्त॒नामिति॑ द्वि - स्त॒नाम् । क॒रो॒ति॒ । द्यावा॑पृथि॒व्योरिति॒ द्यावा᳚ - पृ॒थि॒व्योः । दोहा॑य । चतुः॑स्तना॒मिति॒ चतुः॑ - स्त॒ना॒म् । क॒रो॒ति॒ । प॒शू॒नाम् । दोहा॑य । अ॒ष्टास्त॑ना॒मित्य॒ष्टा - स्त॒ना॒म् । क॒रो॒ति॒ । छन्द॑साम् । दोहा॑य । नवा᳚श्रि॒मिति॒ नव॑ - अ॒श्रि॒म् । अ॒भि॒चर॑त॒ इत्य॑भि - चर॑तः ( ) । कु॒र्या॒त् । त्रि॒वृत॒मिति॑ त्रि - वृत᳚म् । ए॒व । वज्र᳚म् । स॒भृंत्येति॑ सं - भृत्य॑ । भ्रातृ॑व्याय । प्रेति॑ । ह॒र॒ति॒ । स्तृत्यै᳚ । कृ॒त्वाय॑ । सा । म॒हीम् । उ॒खाम् । इति॑ । नीति॑ । द॒धा॒ति॒ । दे॒वता॑सु । ए॒व । ए॒ना॒म् । प्रतीति॑ । स्था॒प॒य॒ति॒ ॥