ॅवा ए॒तां पत्न॒योऽग्रे॑ऽकुर्व॒न् ताभि॑रे॒वैनां᳚ दधाति धि॒षणा॒स्त्वेत्या॑ह वि॒द्या वै धि॒षणा॑ वि॒द्याभि॑रे॒वैना॑म॒भीन्धे॒ ग्नास्त्वेत्या॑ह॒ छन्दाꣳ॑सि॒ वै ग्ना श्छन्दो॑भिरे॒वैनाꣳ॑ श्रपयति॒ वरू᳚त्रय॒स्त्त्वेत्या॑ह॒ होत्रा॒ वै वरू᳚त्रयो॒ होत्रा॑भिरे॒वैनां᳚ पचति॒ जन॑य॒स्त्वेत्या॑ह दे॒वानां॒ ॅवै पत्नी॒ - [ ]
पदपाठः (Word-by-word)
वै । ए॒ताम् । पत्न॑यः । अग्रे᳚ । अ॒कु॒र्व॒न्न् । ताभिः॑ । ए॒व । ए॒ना॒म् । द॒धा॒ति॒ । धि॒षणाः᳚ । त्वा॒ । इति॑ । आ॒ह॒ । वि॒द्याः । वै । धि॒षणाः᳚ । वि॒द्याभिः॑ । ए॒व । ए॒ना॒म् । अ॒भीति॑ । इ॒न्धे॒ । ग्नाः । त्वा॒ । इति॑ । आ॒ह॒ । छन्दाꣳ॑सि । वै । ग्नाः । छन्दो॑भि॒रिति॒ छन्दः॑ - भिः॒ । ए॒व । ए॒ना॒म् । श्र॒प॒य॒ति॒ । वरू᳚त्रयः । त्वा॒ । इति॑ । आ॒ह॒ । होत्राः᳚ । वै । वरू᳚त्रयः । होत्रा॑भिः । ए॒व । ए॒ना॒म् । प॒च॒ति॒ । जन॑यः । त्वा॒ । इति॑ । आ॒ह॒ । दे॒वाना᳚म् । वै । पत्नीः᳚ ।