-र्जन॑य॒स्ताभि॑रे॒वैनां᳚ पचति ष॒ड्भिः प॑चति॒ षड्वा ऋ॒तव॑ ऋ॒तुभि॑रे॒वैनां᳚ पचति॒ द्विः पच॒न्त्वित्या॑ह॒ तस्मा॒द् द्विः सं॑ॅवथ्स॒रस्य॑ स॒स्यं प॑च्यते वारु॒ण्यु॑खाऽभीद्धा॑ मै॒त्रियोपै॑ति॒ शान्त्यै॑ दे॒वस्त्वा॑ सवि॒तोद्-व॑प॒त्वित्या॑ह सवि॒तृप्र॑सूत ए॒वैनां॒ ब्रह्म॑णा दे॒वता॑भि॒रुद्-व॑प॒त्यप॑द्यमाना पृथि॒व्याशा॒ दिश॒ आ पृ॒णे - [ ]
पदपाठः (Word-by-word)
जन॑यः । ताभिः॑ । ए॒व । ए॒ना॒म् । प॒च॒ति॒ । ष॒ड्भिरिति॑ षट् - भिः । प॒च॒ति॒ । षट् । वै । ऋ॒तवः॑ । ऋ॒तुभि॒रित्यृ॒तु - भिः॒ । ए॒व । ए॒ना॒म् । प॒च॒ति॒ । द्विः । पच॑न्तु । इति॑ । आ॒ह॒ । तस्मा᳚त् । द्विः । सं॒ॅव॒थ्स॒रस्येति॑ सं-व॒थ्स॒रस्य॑ । स॒स्यम् । प॒च्य॒ते॒ । वा॒रु॒णी । उ॒खा । अ॒भीद्धेत्य॒भि-इ॒द्धा॒ । मै॒त्रिया᳚ । उपेति॑ । ए॒ति॒ । शान्त्यै᳚ । दे॒वः । त्वा॒ । स॒वि॒ता । उदिति॑ । व॒प॒तु॒ । इति॑ । आ॒ह॒ । स॒वि॒तृप्र॑सूत॒ इति॑ सवि॒तृ - प्र॒सू॒तः॒ । ए॒व । ए॒ना॒म् । ब्रह्म॑णा । दे॒वता॑भिः । उदिति॑ । व॒प॒ति॒ । अप॑द्यमाना । पृ॒थि॒वि॒ । आशाः᳚ । दिशः॑ । एति॑ । पृ॒ण॒ ।