भव॒न्त्ये क॑विꣳ शतिꣳ सामिधे॒नीरन्वा॑ह॒ रुग्वा ए॑कविꣳ॒॒शो रुच॑मे॒व ग॑च्छ॒त्यथो᳚ प्रति॒ष्ठामे॒व प्र॑ति॒ष्ठा ह्ये॑कविꣳ॒॒श-श्चतु॑र्विꣳशति॒मन्वा॑ह॒ चतु॑र्विꣳशतिरर्द्धमा॒साः सं॑ॅवथ्स॒रः सं॑ॅवथ्स॒रो᳚ऽग्निर्वै᳚श्वान॒रः सा॒क्षादे॒व वै᳚श्वान॒रमव॑ रुन्धे॒ परा॑ची॒रन्वा॑ह॒ परा॑ङिव॒ हि सु॑व॒र्गो लो॒कः समा᳚स्त्वाऽग्न ऋ॒तवो॑ वर्द्धय॒न्त्वित्या॑ह॒ समा॑भिरे॒वाऽग्निं ॅव॑र्द्धय - [ ]
पदपाठः (Word-by-word)
भ॒व॒न्ति॒ । एक॑विꣳशति॒मित्येक॑ - विꣳ॒॒श॒ति॒म् । सा॒मि॒धे॒नीरिति॑ सां - इ॒धे॒नीः । अन्विति॑ । आ॒ह॒ । रुक् । वै । ए॒क॒विꣳ॒॒श इत्ये॑क - विꣳ॒॒शः । रुच᳚म् । ए॒व । ग॒च्छ॒ति॒ । अथो॒ इति॑ । प्र॒ति॒ष्ठामिति॑ प्रति - स्थाम् । ए॒व । प्र॒ति॒ष्ठेति॑ प्रति - स्था । हि । ए॒क॒विꣳ॒॒श इत्ये॑क - विꣳ॒॒शः । चतु॑र्विꣳशति॒मिति॒ चतुः॑ - विꣳ॒॒श॒ति॒म् । अन्विति॑ । आ॒ह॒ । चतु॑र्विꣳशति॒रिति॒ चतुः॑ - विꣳ॒॒श॒तिः॒ । अ॒द्र्ध॒मा॒सा इत्य॑द्र्ध - मा॒साः । सं॒ॅव॒थ्स॒र इति॑ सं - व॒थ्स॒रः । सं॒ॅव॒थ्स॒र इति॑ सं - व॒थ्स॒रः । अ॒ग्निः । वै॒श्वा॒न॒रः । सा॒क्षादिति॑ स - अ॒क्षात् । ए॒व । वै॒श्वा॒न॒रम् । अवेति॑ । रु॒न्धे॒ । परा॑चीः । अन्विति॑ । आ॒ह॒ । पराङ्॑ । इ॒व॒ । हि । सु॒व॒र्ग इति॑ सुवः - गः । लो॒कः । समाः᳚ । त्वा॒ । अ॒ग्ने॒ । ऋ॒तवः॑ । व॒द्र्ध॒य॒न्तु॒ । इति॑ । आ॒ह॒ । समा॑भिः । ए॒व । अ॒ग्निम् । व॒द्र्ध॒य॒ति॒ ।