प्र॒जाप॑ते॒रापत्यै॒ न्यू॑नया जुहोति॒ न्यू॑ना॒द्धि प्र॒जाप॑तिः प्र॒जा असृ॑जत प्र॒जानाꣳ॒॒ सृष्ट्यै॒ यद॒र्चिषि॑ प्रवृ॒ञ्ज्याद्-भू॒तमव॑ रुन्धीत॒ यदङ्गा॑रेषु भवि॒ष्यदङ्गा॑रेषु॒ प्रवृ॑णक्ति भवि॒ष्य दे॒वाव॑ रुन्धे भवि॒ष्यद्धि भूयो॑ भू॒ताद्-द्वाभ्यां॒ प्रवृ॑णक्ति द्वि॒पाद्-यज॑मानः॒ प्रति॑ष्ठित्यै॒ ब्रह्म॑णा॒ वा ए॒षा यजु॑षा॒ संभृ॑ता॒ यदु॒खा सा यद्भिद्ये॒ताऽऽ*र्ति॒मार्च्छे॒ - [ ]
पदपाठः (Word-by-word)
प्र॒जाप॑ते॒रिति॑ प्र॒जा - प॒तेः॒ । आप्त्यै᳚ । न्यू॑न॒येति॒ नि - ऊ॒न॒या॒ । जु॒हो॒ति॒ । न्यू॑ना॒दिति॒ नि - ऊ॒ना॒त् । हि । प्र॒जाप॑ति॒रिति॑ प्र॒जा-प॒तिः॒ । प्र॒जा इति॑ प्र - जाः । असृ॑जत । प्र॒जाना॒मिति॑ प्र - जाना᳚म् । सृष्ट्यै᳚ । यत् । अ॒र्चिषि॑ । प्र॒वृ॒ञ्ज्यादिति॑ प्र - वृ॒ञ्ज्यात् । भू॒तम् । अवेति॑ । रु॒न्धी॒त॒ । यत् । अङ्गा॑रेषु । भ॒वि॒ष्यत् । अङ्गा॑रेषु । प्रेति॑ । वृ॒ण॒क्ति॒ । भ॒वि॒ष्यत् । ए॒व । अवेति॑ । रु॒न्धे॒ । भ॒वि॒ष्यत् । हि । भूयः॑ । भू॒तात् । द्वाभ्या᳚म् । प्रेति॑ । वृ॒ण॒क्ति॒ । द्वि॒पादिति॑ द्वि-पात् । यज॑मानः । प्रति॑ष्ठित्या॒ इति॒ प्रति॑ - स्थि॒त्यै॒ । ब्रह्म॑णा । वै । ए॒षा । यजु॑षा । संभृ॒तेति॒ सं - भृ॒ता॒ । यत् । उ॒खा । सा । यत् । भिद्ये॑त । आर्ति᳚म् । एति॑ । ऋ॒च्छे॒त् ।