प्रश्नः 1 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 5.1.9.3 TS 5.1.9.3
-द्यज॑मानो ह॒न्येता᳚ऽस्य य॒ज्ञो मित्रै॒तामु॒खां त॒पेत्या॑ह॒ ब्रह्म॒ वै मि॒त्रो ब्रह्म॑न्ने॒वैनां॒ प्रति॑ष्ठापयति॒ नाऽऽर्ति॒मार्च्छ॑ति॒ यज॑मानो॒ नास्य॑ य॒ज्ञो ह॑न्यते॒ यदि॒ भिद्ये॑त॒ तैरे॒व क॒पालैः॒ सꣳ सृ॑जे॒थ् सैव ततः॒ प्राय॑श्चित्ति॒र्यो ग॒तश्रीः॒ स्यान्म॑थि॒त्वा तस्याव॑ दद्ध्याद्-भू॒तो वा ए॒ष स स्वां - [ ]
पदपाठः (Word-by-word)
यज॑मानः । ह॒न्येत॑ । अ॒स्य॒ । य॒ज्ञ्ः । मित्र॑ । ए॒ताम् । उ॒खाम् । त॒प॒ । इति॑ । आ॒ह॒ । ब्रह्म॑ । वै । मि॒त्रः । ब्रह्मन्न्॑ । ए॒व । ए॒ना॒म् । प्रतीति॑ । स्था॒प॒य॒ति॒ । न । आर्ति᳚म् । एति॑ । ऋ॒च्छ॒ति॒ । यज॑मानः । न । अ॒स्य॒ । य॒ज्ञ्ः । ह॒न्य॒ते॒ । यदि॑ । भिद्ये॑त । तैः । ए॒व । क॒पालैः᳚ । समिति॑ । सृ॒जे॒त् । सा । ए॒व । ततः॑ । प्राय॑श्चित्तिः । यः । ग॒तश्री॒रिति॑ ग॒त - श्रीः॒ । स्यात् । म॒थि॒त्वा । तस्य॑ । अवेति॑ । द॒द्ध्या॒त् । भू॒तः । वै । ए॒षः । सः । स्वाम् ।
पदसंख्या: 50