प्रश्नः 1 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 5.1.9.4 TS 5.1.9.4
दे॒वता॒मुपै॑ति॒ यो भूति॑कामः॒ स्याद्य उ॒खायै॑ स॒भंवे॒थ् स ए॒व तस्य॑ स्या॒दतो॒ ह्ये॑ष स॒भंव॑त्ये॒ष वै स्व॑य॒भूंर्नाम॒ भव॑त्ये॒व यं का॒मये॑त॒ भ्रातृ॑व्यमस्मै जनयेय॒मित्य॒-न्यत॒स्तस्या॒-ऽऽहृत्याऽव॑ दद्ध्याथ् सा॒क्षादे॒वास्मै॒ भ्रातृ॑व्यं जनयत्यम्ब॒रीषा॒दन्न॑ काम॒स्याव॑ दद्ध्यादंब॒रीषे॒ वा अन्नं॑ भ्रियते॒ सयो᳚न्ये॒वान्न॒ - [ ]
पदपाठः (Word-by-word)
दे॒वता᳚म् । उपेति॑ । ए॒ति॒ । यः । भूति॑काम॒ इति॒ भूति॑ - का॒मः॒ । स्यात् । यः । उ॒खायै᳚ । स॒भंवे॒दिति॑ सं - भवे᳚त् । सः । ए॒व । तस्य॑ । स्या॒त् । अतः॑ । हि । ए॒षः । स॒भंव॒तीति॑ सं-भव॑ति । ए॒षः । वै । स्व॒य॒भूंरिति॑ स्वयं-भूः । नाम॑ । भव॑ति । ए॒व । यम् । का॒मये॑त । भ्रातृ॑व्यम् । अ॒स्मै॒ । ज॒न॒ये॒य॒म् । इति॑ । अ॒न्यतः॑ । तस्य॑ । आ॒हृत्येत्या᳚ - हृत्य॑ । अवेति॑ । द॒द्ध्या॒त् । सा॒क्षादिति॑ स - अ॒क्षात् । ए॒व । अ॒स्मै॒ । भ्रातृ॑व्यम् । ज॒न॒य॒ति॒ । अ॒बं॒रीषा᳚त् । अन्न॑काम॒स्येत्यन्न॑ - का॒म॒स्य॒ । अवेति॑ । द॒द्ध्या॒त् । अ॒बं॒रीषे᳚ । वै । अन्न᳚म् । भ्रि॒य॒ते॒ । सयो॒नीति॒ स - यो॒नि॒ । ए॒व । अन्न᳚म् ।
पदसंख्या: 50