वै क॑कंती॒मा द॑धाति॒ भा ए॒वाव॑ रुन्धे शमी॒मयी॒मा द॑धाति॒ शान्त्यै॒ सीद॒ त्वं मा॒तुर॒स्या उ॒पस्थ॒ इति॑ ति॒सृभि॑र्जा॒तमुप॑ तिष्ठते॒ त्रय॑ इ॒मे लो॒का ए॒ष्वे॑व लो॒केष्वा॒विदं॑ गच्छ॒त्यथो᳚ प्रा॒णाने॒वाऽऽत्मन् ध॑त्ते ॥
पदपाठः (Word-by-word)
वैक॑ङ्कतीम् । एति॑ । द॒धा॒ति॒ । भाः । ए॒व । अवेति॑ । रु॒न्धे॒ । श॒मी॒मयी॒मिति॑ शमी - मयी᳚म् । एति॑ । द॒धा॒ति॒ । शान्त्यै᳚ । सीद॑ । त्वम् । मा॒तुः । अ॒स्याः । उ॒पस्थ॒ इत्यु॒प - स्थे॒ । इति॑ । ति॒सृभि॒रिति॑ ति॒सृ - भिः॒ । जा॒तम् । उपेति॑ । ति॒ष्ठ॒ते॒ । त्रयः॑ । इ॒मे । लो॒काः । ए॒षु । ए॒व । लो॒केषु॑ । आ॒विद॒मित्या᳚ - विद᳚म् । ग॒च्छ॒ति॒ । अथो॒ इति॑ । प्रा॒णानिति॑ प्र - अ॒नान् । ए॒व । आ॒त्मन्न् । ध॒त्ते॒ ॥