प॒र्याव॑र्तते दक्षि॒णा प॒र्याव॑र्तते॒ स्वमे॒व वी॒र्य॑मनु॑ प॒र्याव॑र्तते॒ तस्मा॒द्-दक्षि॒णोऽर्द्ध॑ आ॒त्मनो॑ वी॒र्या॑वत्त॒रोऽथो॑ आदि॒त्यस्यै॒वाऽऽ*वृत॒मनु॑ प॒र्याव॑र्तते॒ शुन॒श्शेप॒माजी॑गर्तिं॒ ॅवरु॑णोऽगृह्णा॒थ् स ए॒तां ॅवा॑रु॒णीम॑पश्य॒त् तया॒ वै स आ॒त्मानं॑ ॅवरुणपा॒शाद॑मुञ्च॒द्-वरु॑णो॒ वा ए॒तं गृ॑ह्णाति॒ य उ॒खां प्र॑तिमु॒ञ्चत॒ उदु॑त्त॒मं ॅव॑रुण॒पाश॑-म॒स्मदित्या॑हा॒-ऽऽ*त्मान॑मे॒वैतया॑ - [ ]
पदपाठः (Word-by-word)
प॒र्याव॑र्तत॒ इति॑ परि - आव॑र्तते । द॒क्षि॒णा । प॒र्याव॑र्तत॒ इति॑ परि - आव॑र्तते । स्वम् । ए॒व । वी॒र्य᳚म् । अन्विति॑ । प॒र्याव॑र्तत॒ इति॑ परि - आव॑र्तते । तस्मा᳚त् । दक्षि॑णः । अद्र्धः॑ । आ॒त्मनः॑ । वी॒र्या॑वत्तर॒ इति॑ वी॒र्या॑वत् - त॒रः॒ । अथो॒ इति॑ । आ॒दि॒त्यस्य॑ । ए॒व । आ॒वृत॒मित्या᳚ - वृत᳚म् । अन्विति॑ । प॒र्याव॑र्तत॒ इति॑ परि - आव॑र्तते । शुन॒श्शेप᳚म् । आजी॑गर्तिम् । वरु॑णः । अ॒गृ॒ह्णा॒त् । सः । ए॒ताम् । वा॒रु॒णीम् । अ॒प॒श्य॒त् । तया᳚ । वै । सः । आ॒त्मान᳚म् । व॒रु॒ण॒पा॒शादिति॑ वरुण - पा॒शात् । अ॒मु॒ञ्च॒त् । वरु॑णः । वै । ए॒तम् । गृ॒ह्णा॒ति॒ । यः । उ॒खाम् । प्र॒ति॒मु॒ञ्चत॒ इति॑ प्रति - मु॒ञ्चते᳚ । उदिति॑ । उ॒त्त॒ममित्यु॑त् - त॒मम् । व॒रु॒ण॒ । पाश᳚म् । अ॒स्मत् । इति॑ । आ॒ह॒ । आ॒त्मान᳚म् । ए॒व । ए॒तया᳚ ।