भवति स॒त्त्वमे॒वैनं॑ गमयति वाथ्स॒प्रेणोप॑ तिष्ठत ए॒तेन॒ वै व॑थ्स॒प्रीर्भा॑लन्द॒नो᳚ऽग्नेः प्रि॒यं धामाऽवा॑ऽरुन्धा॒ऽग्नेरे॒वैतेन॑ प्रि॒यं धामाऽव॑ रुन्ध एकाद॒शं भ॑वत्येक॒धैव यज॑माने वी॒र्यं॑ दधाति॒ स्तोमे॑न॒ वै दे॒वा अ॒स्मिन् ॅलो॒क आ᳚र्द्ध्नुव॒न् छन्दो॑भिर॒मुष्मि॒न्थ् स्तोम॑स्येव॒ खलु॒ वा ए॒तद्-रू॒पं ॅयद्-वा᳚थ्स॒प्रं ॅयद्-वा᳚थ्स॒प्रेणो॑प॒तिष्ठ॑त - [ ]
पदपाठः (Word-by-word)
भ॒व॒ति॒ । स॒त्त्वमिति॑ सत् - त्वम् । ए॒व । ए॒न॒म् । ग॒म॒य॒ति॒ । वा॒थ्स॒प्रेणेति॑ वाथ्स - प्रेण॑ । उपेति॑ । ति॒ष्ठ॒ते॒ । ए॒तेन॑ । वै । व॒थ्स॒प्रीरिति॑ वथ्स - प्रीः । भा॒ल॒न्द॒नः । अ॒ग्नेः । प्रि॒यम् । धाम॑ । अवेति॑ । अ॒रु॒न्ध॒ । अ॒ग्नेः । ए॒व । ए॒तेन॑ । प्रि॒यम् । धाम॑ । अवेति॑ । रु॒न्धे॒ । ए॒का॒द॒शम् । भ॒व॒ति॒ । ए॒क॒धेत्ये॑क - धा । ए॒व । यज॑माने । वी॒र्य᳚म् । द॒धा॒ति॒ । स्तोमे॑न । वै । दे॒वाः । अ॒स्मिन्न् । लो॒के । आ॒द्र्ध्नु॒व॒न्न् । छन्दो॑भि॒रिति॒ छन्दः॑ - भिः॒ । अ॒मुष्मिन्न्॑ । स्तोम॑स्य । इ॒व॒ । खलु॑ । वै । ए॒तत् । रू॒पम् । यत् । वा॒थ्स॒प्रमिति॑ वाथ्स-प्रम् । यत् । वा॒थ्स॒प्रेणेति॑ वाथ्स-प्रेण॑ । उ॒प॒तिष्ठ॑त॒ इत्यु॑प-तिष्ठ॑ते ।