प्रश्नः 2 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 5.2.3.1 TS 5.2.3.1
याव॑ती॒ वै पृ॑थि॒वी तस्यै॑ य॒म आधि॑पत्यं॒ परी॑याय॒ यो वै य॒मं दे॑व॒यज॑नम॒स्या अनि॑र्याच्या॒ऽग्निं चि॑नु॒ते य॒मायै॑नꣳ॒॒ स चि॑नु॒तेऽपे॒ते-त्य॒द्ध्यव॑साययति य॒ममे॒व दे॑व॒यज॑नम॒स्यै नि॒र्याच्या॒- ऽऽत्मने॒ऽग्निं चि॑नुत इष्व॒ग्रेण॒ वा अ॒स्या अना॑मृत-मि॒च्छन्तो॒ नावि॑न्द॒न् ते दे॒वा ए॒तद्-यजु॑रपश्य॒न्नपे॒तेति॒ यदे॒तेना᳚-ध्यवसा॒यय॒त्य - [ ]
पदपाठः (Word-by-word)
याव॑ती । वै । पृ॒थि॒वी । तस्यै᳚ । य॒मः । आधि॑पत्य॒मित्याधि॑ - प॒त्य॒म् । परीति॑ । इ॒या॒य॒ । यः । वै । य॒मम् । दे॒व॒यज॑न॒मिति॑ देव - यज॑नम् । अ॒स्याः । अनि॑र्या॒च्येत्यनिः॑ - या॒च्य॒ । अ॒ग्निम् । चि॒नु॒ते । य॒माय॑ । ए॒न॒म् । सः । चि॒नु॒ते॒ । अपेति॑ । इ॒त॒ । इति॑ । अ॒द्ध्यव॑सायय॒तीत्य॑धि - अव॑साययति । य॒मम् । ए॒व । दे॒व॒यज॑न॒मिति॑ देव-यज॑नम् । अ॒स्यै । नि॒र्याच्येति॑ निः - याच्य॑ । आ॒त्मने᳚ । अ॒ग्निम् । चि॒नु॒ते॒ । इ॒ष्व॒ग्रेणेती॑षु - अ॒ग्रेण॑ । वै । अ॒स्याः । अना॑मृत॒मित्यना᳚ - मृ॒त॒म् । इ॒च्छन्तः॑ । न । अ॒वि॒न्द॒न्न् । ते । दे॒वाः । ए॒तत् । यजुः॑ । अ॒प॒श्य॒न्न् । अपेति॑ । इ॒त॒ । इति॑ । यत् । ए॒तेन॑ । अ॒द्ध्य॒व॒सा॒यय॒तीत्य॑धि - अ॒व॒सा॒यय॑ति ।
पदसंख्या: 50
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 यावती वा इत्यादि ॥ 'अपेत वीत' इति देवयजनाध्यवसानमन्त्रः । यममिति । 'अकथितं च' इति कर्मत्वम् ॥
2 इष्वग्रेणेति ॥ इष्वग्रमात्रया अस्याः सम्बन्धिनं एकदेशं अनामृतं अमृतैरपि रहितमिच्छन्तः अन्विच्छन्तोऽपि नाविन्दन् नालभन्त । अनामृत एवेति । प्रेतानामृतप [मृतादप] सारितत्वात् ॥
3 उद्धन्तीत्यादि ॥ गतम् । सिकतादयः सम्भारा गार्हपत्यायतने निवप्तव्याः । पुष्टिर्वा इत्यादि । पुष्टिहेतवः प्रजननहेतवश्चोषाः, तादृशे प्रदेशे अग्निश्चितो भवति तेषां निवपनेन । अथो अपिच । संज्ञान एवेति । अग्निं चिनुत इत्येव । सम्यक् ज्ञायन्ते पशवो यैः तादृशा ऊषाः ॥
4 द्यावापृथिवी इत्यादि ॥ वियती वियत्यौ विगच्छन्त्यौ । 'वा छन्दसि' इति पूर्वसवर्ण्दीर्घत्वम् । 'शतुरनुमः' इति नद्या उदात्तत्वम् । 'देवताद्वन्द्वे च' इति द्यावापृथिवीशब्द आद्युदात्तः । अस्त्वेवेति । नौ आवयोः यद्यज्ञियं यज्ञार्हं रूपं तत्सहैवास्त्विति विश्लेषारम्भे अब्रूताम् । यदित्यादि । गतम् । अदो ध्यायेदिति । यददः चन्द्रमसि कृष्णं तदिहास्त्विति ॥
5 अयं स इत्यादि ॥ एतद्विश्वामित्रस्य सूक्तं षडृचम् । आद्याभिः चतसृभिः गार्हपत्यचितौ चतस्रः प्राचीर्याः पुनरिष्टकाः प्रतिमन्त्रमुपदधाति । 'मित्रे चर्षौ' इति पूर्वपदस्य दीर्घत्वम् । अन्तोदात्तत्वं च । चतुस्सङ्ख्यान्वयाच्छन्दोलाभः ॥
6 तेषामिति ॥ देवानां यतां गच्छताम् । 'शतुरनुमः' इति विभक्तेरुदात्तत्त्वम् । समव्लीयन्त, व्ली विशरणे । त इति । देवाः पुरस्तात् पूर्वस्यां दिशि द्वे इष्टके सङ्गते दक्षिणामुत्तरां चोपादधत 'चिदसि, परिचिदसि' इत्याभ्याम् । ताभिः इष्टकाभिः । अथो अपि च । चतुस्सङ्ख्यान्वयात् पश्चात्तु [पशुसाधन] छन्दोलाभः ॥
7 अष्टावित्यादि ॥ गतम् । अञ्जसेति । ऋजुना मार्गेण ॥
8 त्रयोदशेति ॥ इमावष्टौ एका चितिः । त्रयोदशभिः लोकंपृणाभिः प्रदक्षिणं चिनोति 'लोकं पृण' इत्यनया । लोकं स्थानं अन्याभिः अनाक्रान्तमवकाशं पृणति पूरयतीति लोकंपृणा । इगुपधलक्षणः कः । छान्दसो द्वितीयाया अलुक् । 'लोकस्य पृणे मुम्वक्तव्यः' इति मुम् । त्रयश्च दश च त्रयोदश । 'सङ्ख्या' इति पूर्वपदप्रकृतिस्वरत्वम् । एकविंशतिरिति । प्रतिष्ठेति । तद्धेतुत्वात्ताच्छब्द्यम् । एकविंशस्य प्रतिष्ठां गार्हपत्यं च अनुप्रतिष्ठितो भवति । एवं वेदिता अग्निं चितवान् प्रतिष्ठितो भवति । 'विभाषा चेः' इति लिटि कुत्वम् ॥
9 पञ्चचितीकमिति ॥ 'चितेः कपि' इति दीर्घत्वम् । पाङ्क्तो यज्ञ इति । धानादिपञ्चकसाध्यत्वात् । पङ्क्तिशब्द उत्सादिः । एकधेति । एकेन प्रकारेण वर्तन्ते । एकवृतैवेति । एकधैव वृताम् । पुरीषेणेति । पुरीषया मृत्तिकया । दुश्चर्मेति । 'परादिश्छन्दसि' इत्युत्तरपदाद्युदात्तत्वम् ॥
10 पञ्च चितय इत्यादि ॥ गतम् । 'झल्युपोत्तमम्' इति उपोत्तमस्योदात्तत्वम् ॥
इति पञ्चमे द्वितीये तृतीयोनुवाकः ॥