सू॒क्तं भ॑वत्ये॒तेन॒ वै वि॒श्वामि॑त्रो॒ऽग्नेः प्रि॒यं धामा ऽवा॑रुन्धा॒ग्नेरे॒वैतेन॑ प्रि॒यं धामाव॑ रुन्धे॒ छन्दो॑भि॒र्वै दे॒वाः सु॑व॒र्गं ॅलो॒कमा॑य॒न् चत॑स्रः॒ प्राची॒रुप॑ दधाति च॒त्वारि॒ छन्दाꣳ॑सि॒ छन्दो॑भिरे॒व तद्-यज॑मानः सुव॒र्गं ॅलो॒कमे॑ति॒ तेषाꣳ॑ सुव॒र्गं ॅलो॒कं ॅय॒तां दिशः॒ सम॑व्लीयन्त॒ ते द्वे पु॒रस्ता᳚थ् स॒मीची॒ उपा॑दधत॒ द्वे - [ ]
पदपाठः (Word-by-word)
सू॒क्तमिति॑ सु - उ॒क्तम् । भ॒व॒ति॒ । ए॒तेन॑ । वै । वि॒श्वामि॑त्र॒ इति॑ वि॒श्व - मि॒त्रः॒ । अ॒ग्नेः । प्रि॒यम् । धाम॑ । अवेति॑ । अ॒रु॒न्ध॒ । अ॒ग्नेः । ए॒व । ए॒तेन॑ । प्रि॒यम् । धाम॑ । अवेति॑ । रु॒न्धे॒ । छन्दो॑भि॒रिति॒ छन्दः॑ - भिः॒ । वै । दे॒वाः । सु॒व॒र्गमिति॑ सुवः - गम् । लो॒कम् । आ॒य॒न्न् । चत॑स्रः । प्राचीः᳚ । उपेति॑ । द॒धा॒ति॒ । च॒त्वारि॑ । छन्दाꣳ॑सि । छन्दो॑भि॒रिति॒ छन्दः॑ - भिः॒ । ए॒व । तत् । यज॑मानः । सु॒व॒र्गमिति॑ सुवः - गम् । लो॒कम् । ए॒ति॒ । तेषा᳚म् । सु॒व॒र्गमिति॑ सुवः - गम् । लो॒कम् । य॒ताम् । दिशः॑ । समिति॑ । अ॒व्ली॒य॒न्त॒ । ते । द्वे इति॑ । पु॒रस्ता᳚त् । स॒मीची॒ इति॑ । उपेति॑ । अ॒द॒ध॒त॒ । द्वे इति॑ ।