प्रज्ञा᳚त्यै॒ त्रयो॑दश लोकंपृ॒णा उप॑ दधा॒त्येक॑विꣳशतिः॒ संप॑द्यन्ते प्रति॒ष्ठा वा ए॑कविꣳ॒॒शः प्र॑ति॒ष्ठा गार्.ह॑पत्य एकविꣳ॒॒शस्यै॒व प्र॑ति॒ष्ठां गार्.ह॑पत्य॒मनु॒ प्रति॑ तिष्ठति॒ प्रत्य॒ग्निं चि॑क्या॒नस्ति॑ष्ठति॒ य ए॒वं ॅवेद॒ पञ्च॑चितीकं चिन्वीत प्रथ॒मं चि॑न्वा॒नः पाङ्क्तो॑ य॒ज्ञ्ः पाङ्क्ताः᳚ प॒शवो॑ य॒ज्ञ्मे॒व प॒शूनव॑ रुन्धे॒ त्रिचि॑तीकं चिन्वीत द्वि॒तीयं॑ चिन्वा॒नस्त्रय॑ इ॒मे लो॒का ए॒ष्वे॑व लो॒केषु॒ - [ ]
पदपाठः (Word-by-word)
प्रज्ञा᳚त्या॒ इति॒ प्र - ज्ञा॒त्यै॒ । त्रयो॑द॒शेति॒ त्रयः॑ - द॒श॒ । लो॒क॒पृं॒णा इति॑ लोकं - पृ॒णाः । उपेति॑ । द॒धा॒ति॒ । एक॑विꣳशति॒रित्येक॑ - विꣳ॒॒श॒तिः॒ । समिति॑ । प॒द्य॒न्ते॒ । प्र॒ति॒ष्ठेति॑ प्रति - स्था । वै । ए॒क॒विꣳ॒॒श इत्ये॑क - विꣳ॒॒शः । प्र॒ति॒ष्ठेति॑ प्रति - स्था । गार्.ह॑पत्य॒ इति॒ गार्.ह॑ - प॒त्यः॒ । ए॒क॒विꣳ॒॒शस्येत्ये॑क - विꣳ॒॒शस्य॑ । ए॒व । प्र॒ति॒ष्ठामिति॑ प्रति-स्थाम् । गार्.ह॑पत्य॒मिति॒ गार्.ह॑ - प॒त्य॒म् । अनु॑ । प्रतीति॑ । ति॒ष्ठ॒ति॒ । प्रतीति॑ । अ॒ग्निम् । चि॒क्या॒नः । ति॒ष्ठ॒ति॒ । यः । ए॒वम् । वेद॑ । पञ्च॑चितीक॒मिति॒ पञ्च॑-चि॒ती॒क॒म् । चि॒न्वी॒त॒ । प्र॒थ॒मम् । चि॒न्वा॒नः । पाङ्क्तः॑ । य॒ज्ञ्ः । पाङ्क्ताः᳚ । प॒शवः॑ । य॒ज्ञ्म् । ए॒व । प॒शून् । अवेति॑ । रु॒न्धे॒ । त्रिचि॑तीक॒मिति॒ त्रि - चि॒ती॒क॒म् । चि॒न्वी॒त॒ । द्वि॒तीय᳚म् । चि॒न्वा॒नः । त्रयः॑ । इ॒मे । लो॒काः । ए॒षु । ए॒व । लो॒केषु॑ ।