प्रश्नः 2 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 5.2.3.7 TS 5.2.3.7
प्रति॑तिष्ठ॒-त्येक॑चितीकं चिन्वीत तृ॒तीयं॑ चिन्वा॒न ए॑क॒धा वै सु॑व॒र्गो लो॒क ए॑क॒वृतै॒व सु॑वर्गं ॅलो॒कमे॑ति॒ पुरी॑षेणा॒भ्यू॑हति॒ तस्मा᳚न्माꣳ॒॒ सेनास्थि॑ छ॒न्नं न दु॒श्चर्मा॑ भवति॒ य ए॒वं ॅवेद॒ पञ्च॒ चित॑यो भवन्ति प॒ञ्चभिः॒ पुरी॑षैर॒भ्यू॑हति॒ दश॒ संप॑द्यन्ते॒ दशा᳚क्षरा वि॒राडन्नं॑ ॅवि॒राड् वि॒राज्ये॒वाऽन्नाद्ये॒ प्रति॑तिष्ठति ॥
पदपाठः (Word-by-word)
प्रतीति॑ । ति॒ष्ठ॒ति॒ । एक॑चितीक॒मित्येक॑ - चि॒ती॒क॒म् । चि॒न्वी॒त॒ । तृ॒तीय᳚म् । चि॒न्वा॒नः । ए॒क॒धेत्ये॑क - धा । वै । सु॒व॒र्ग इति॑ सुवः - गः । लो॒कः । ए॒क॒वृतेत्ये॑क - वृता᳚ । ए॒व । सु॒व॒र्गमिति॑ सुवः - गम् । लो॒कम् । ए॒ति॒ । पुरी॑षेण । अ॒भीति॑ । ऊ॒ह॒ति॒ । तस्मा᳚त् । माꣳ॒॒सेन॑ । अस्थि॑ । छ॒न्नम् । न । दु॒श्चर्मेति॑ दुः - चर्मा᳚ । भ॒व॒ति॒ । यः । ए॒वम् । वेद॑ । पञ्च॑ । चित॑यः । भ॒व॒न्ति॒ । प॒ञ्चभि॒रिति॑ प॒ञ्च - भिः॒ । पुरी॑षैः । अ॒भीति॑ । ऊ॒ह॒ति॒ । दश॑ । समिति॑ । प॒द्य॒न्ते॒ । दशा᳚क्ष॒रेति॒ दश॑ - अ॒क्ष॒रा॒ । वि॒राडिति॑ वि-राट् । अन्न᳚म् । वि॒राडिति॑ वि - राट् । वि॒राजीति॑ वि - राजि॑ । ए॒व । अ॒न्नाद्य॒ इत्य॑न्न - अद्ये᳚ । प्रतीति॑ । ति॒ष्ठ॒ति॒ ॥
पदसंख्या: 47