परि॑ मिनुयाथ् स॒प्त वै शी॑र्.ष॒ण्याः᳚ प्रा॒णाः प्रा॒णाः प॒शवः॑ प्रा॒णैरे॒वास्मै॑ प॒शूनव॑ रुन्धे त्रिण॒वाभि॒-र्भ्रातृ॑व्यवत-स्त्रि॒वृत॑मे॒व वज्रꣳ॑ स॒भृंत्य॒ भ्रातृ॑व्याय॒ प्रह॑रति॒ स्तृत्या॒ अप॑रिमिताभिः॒ परि॑ मिनुया॒-दप॑रिमित॒स्या-व॑रुद्ध्यै॒ यं का॒मये॑ताप॒शुः स्या॒दित्यप॑रिमित्य॒ तस्य॒ शर्क॑राः॒ सिक॑ता॒ व्यू॑हे॒दप॑रिगृहीत ए॒वास्य॑ विषू॒चीनꣳ॒॒ रेतः॒ परा॑ सिञ्चत्यप॒शुरे॒व भ॑वति॒ - [ ]
पदपाठः (Word-by-word)
परीति॑ । मि॒नु॒या॒त् । स॒प्त । वै । शी॒र्॒.ष॒ण्याः᳚ । प्रा॒णा इति॑ प्र-अ॒नाः । प्रा॒णा इति॑ प्र - अ॒नाः । प॒शवः॑ । प्रा॒णैरिति॑ प्र - अ॒नैः । ए॒व । अ॒स्मै॒ । प॒शून् । अवेति॑ । रु॒न्धे॒ । त्रि॒ण॒वाभि॒रिति॑ त्रि - न॒वाभिः॑ । भ्रातृ॑व्यवत॒ इति॒ भ्रातृ॑व्य - व॒तः॒ । त्रि॒वृत॒मिति॑ त्रि - वृत᳚म् । ए॒व । वज्र᳚म् । स॒भृंत्येति॑ सं - भृत्य॑ । भ्रातृ॑व्याय । प्रेति॑ । ह॒र॒ति॒ । स्तृत्यै᳚ । अप॑रिमिताभि॒रित्यप॑रि - मि॒ता॒भिः॒ । परीति॑ । मि॒नु॒या॒त् । अप॑रिमित॒स्येत्यप॑रि - मि॒त॒स्य॒ । अव॑रुद्ध्या॒ इत्यव॑-रु॒द्ध्यै॒ । यम् । का॒मये॑त । अ॒प॒शुः । स्या॒त् । इति॑ । अप॑रिमि॒त्येत्यप॑रि - मि॒त्य॒ । तस्य॑ । शर्क॑राः । सिक॑ताः । वीति॑ । ऊ॒हे॒त् । अप॑रिगृहीत॒ इत्यप॑रि - गृ॒ही॒ते॒ । ए॒व । अ॒स्य॒ । वि॒षू॒चीन᳚म् । रेतः॑ । परेति॑ । सि॒ञ्च॒ति॒ । अ॒प॒शुः । ए॒व । भ॒व॒ति॒ ।