यं का॒मये॑त पशु॒मान्थ् स्या॒दिति॑ परि॒मित्य॒ तस्य॒ शर्क॑राः॒ सिक॑ता॒ व्यू॑हे॒त् परि॑गृहीत ए॒वास्मै॑ समी॒चीनꣳ॒॒ रेतः॑ सिञ्चति पशु॒माने॒व भ॑वति सौ॒म्या व्यू॑हति॒ सोमो॒ वै रे॑तो॒धा रेत॑ ए॒व तद्-द॑धाति गायत्रि॒या ब्रा᳚ह्म॒णस्य॑ गाय॒त्रो हि ब्रा᳚ह्म॒ण-स्त्रि॒ष्टुभा॑ राज॒न्य॑स्य॒ त्रैष्टु॑भो॒ हि रा॑ज॒न्यः॑ श॒म्युं बा॑र्.हस्प॒त्यं मेधो॒ नोपा॑नम॒थ् सो᳚ऽग्निं प्राऽवि॑श॒थ् - [ ]
पदपाठः (Word-by-word)
यम् । का॒मये॑त । प॒शु॒मानिति॑ पशु - मान् । स्या॒त् । इति॑ । प॒रि॒मित्येति॑ परि-मित्य॑ । तस्य॑ । शर्क॑राः । सिक॑ताः । वीति॑ । ऊ॒हे॒त् । परि॑गृहीत॒ इति॒ परि॑ - गृ॒ही॒ते॒ । ए॒व । अ॒स्मै॒ । स॒मी॒चीन᳚म् । रेतः॑ । सि॒ञ्च॒ति॒ । प॒शु॒मानिति॑ पशु-मान् । ए॒व । भ॒व॒ति॒ । सौ॒म्या । वीति॑ । ऊ॒ह॒ति॒ । सोमः॑ । वै । रे॒तो॒धा इति॑ रेतः - धाः । रेतः॑ । ए॒व । तत् । द॒धा॒ति॒ । गा॒य॒त्रि॒या । ब्रा॒ह्म॒णस्य॑ । गा॒य॒त्रः । हि । ब्रा॒ह्म॒णः । त्रि॒ष्टुभा᳚ । रा॒ज॒न्य॑स्य । त्रैष्टु॑भः । हि । रा॒ज॒न्यः॑ । शं॒ॅयुमिति॑ शं - युम् । बा॒र्॒.ह॒स्प॒त्यम् । मेधः॑ । न । उपेति॑ । अ॒न॒म॒त् । सः । अ॒ग्निम् । प्रेति॑ । अ॒वि॒श॒त् ।