प्रश्नः 2 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 5.2.7.1 TS 5.2.7.1
ब्रह्म॑ जज्ञा॒नमिति॑ रु॒क्ममुप॑ दधाति॒ ब्रह्म॑मुखा॒ वै प्र॒जाप॑तिः प्र॒जा अ॑सृजत॒ ब्रह्म॑मुखा ए॒व तत् प्र॒जा यज॑मानः सृजते॒ ब्रह्म॑ जज्ञा॒नमित्या॑ह॒ तस्मा᳚द्ब्राह्म॒णो मुख्यो॒ मुख्यो॑ भवति॒ य ए॒वं ॅवेद॑ ब्रह्मवा॒दिनो॑ वदन्ति॒ न पृ॑थि॒व्यां नान्तरि॑क्षे॒ न दि॒व्य॑ग्निश्चे॑त॒व्य॑ इति॒ यत् पृ॑थि॒व्यां चि॑न्वी॒त पृ॑थि॒वीꣳ शु॒चाऽर्प॑ये॒न्नौष॑धयो॒ न वन॒स्पत॑यः॒ - [ ]
पदपाठः (Word-by-word)
ब्रह्म॑ । ज॒ज्ञा॒नम् । इति॑ । रु॒क्मम् । उपेति॑ । द॒धा॒ति॒ । ब्रह्म॑मुखा॒ इति॒ ब्रह्म॑ - मु॒खाः॒ । वै । प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । प्र॒जा इति॑ प्र - जाः । अ॒सृ॒ज॒त॒ । ब्रह्म॑मुखा॒ इति॒ ब्रह्म॑ - मु॒खाः॒ । ए॒व । तत् । प्र॒जा इति॑ प्र - जाः । यज॑मानः । सृ॒ज॒ते॒ । ब्रह्म॑ । ज॒ज्ञा॒नम् । इति॑ । आ॒ह॒ । तस्मा᳚त् । ब्रा॒ह्म॒णः । मुख्यः॑ । मुख्यः॑ । भ॒व॒ति॒ । यः । ए॒वम् । वेद॑ । ब्र॒ह्म॒वा॒दिन॒ इति॑ ब्रह्म - वा॒दिनः॑ । व॒द॒न्ति॒ । न । पृ॒थि॒व्याम् । न । अ॒न्तरि॑क्षे । न । दि॒वि । अ॒ग्निः । चे॒त॒व्यः॑ । इति॑ । यत् । पृ॒थि॒व्याम् । चि॒न्वी॒त । पृ॒थि॒वीम् । शु॒चा । अ॒र्प॒ये॒त् । न । ओष॑धयः । न । वन॒स्पत॑यः ।
पदसंख्या: 50
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 ब्रह्म जज्ञानमित्यादि ॥ उत्तरवेद्यां पूष्करपर्णेषूत्तरं रुक्ममुपदधाति । ब्रह्ममुखा वा इत्यादि ब्राह्मणम् । प्रथमजाभिधानेन रुक्माभिधानात् ब्रह्मप्राथम्यं प्रजानां प्राधान्यं च ब्राह्मणस्य ॥
2 हिरण्मयमिति ॥ दक्षिणतः प्राञ्चं 'हिरण्यगर्भः' इत्यनेन आतृण्णं छिद्रं अपिदध्यात् नाशयेत् । दाधारेति । छान्दसो लिट्, धारयति । तुजादित्वादभ्यासस्य दीर्घत्वम् । अथो अपि च खल्विति पक्षान्तरम् । लक्षणे अनोः कर्मप्रवचनीयत्वम् ॥
3 अभि मृशतीति ॥ पुरुषं हिरण्मयम् । होत्रास्विति 'अनु सप्त होत्राः' इति लिङ्गात् ॥
4 स्रुचाविति ॥ पुरुषं दक्षिणेनोत्तरेण च । आज्यस्येति । 'पूरणगुण' इति षष्ठीसमासप्रतिषेधात् पूरणार्थैर्योगे षष्ठी ज्ञापिता । कार्ष्मर्यमयीमिति । 'नित्यं वृद्धशरादिभ्यः' इति मयट् । औदुम्बरीमिति । 'अनुदात्तादेश्च' इत्यञ् ॥
5 इयं वा इत्यादि ॥ गतम् ॥
6 स्रुग्वै विराडिति ॥ विराजनशीलत्वाद्विराट्, साधनत्वाद्वा ॥
7 व्याघारयतीति ॥ उत्तरवेदिवत् ॥
8 पञ्चभिरिति ॥ 'सिंहीरसि' इत्यादिभिः । 'झल्युपोत्तमम्' इत्युपोत्तमस्य उदात्तत्वम् । पाङ्क्त इति । धानादिपञ्चकसाध्यत्वात् ॥
9 अक्ष्णयेति ॥ कोणगत्या दक्षिणमंसं उत्तरां श्रोणीं दक्षिणमुत्तरमंसं मध्यमिति । अङ्गानि चरणादीन्यक्ष्णया न्यस्यति शयनादिषु च उपसंहरति । तस्मादक्ष्णया व्याघारणं प्रतिष्ठित्यै भवति पशूनाम् ॥
इति पञ्चमे द्वितीये सप्तमोनुवाकः ॥