प्राञ्च॒मुप॑ दधाति दा॒धार॑ यजमानलो॒कं न प॑शू॒नां च॒ यज॑मानस्य च प्रा॒णमपि॑ दधा॒त्यथो॒ खल्विष्ट॑काया॒ आतृ॑ण्ण॒मनूप॑ दधाति प्रा॒णाना॒मुथ्सृ॑ष्ट्यै द्र॒फ्सश्च॑स्क॒न्देत्य॒भि मृ॑शति॒ होत्रा᳚स्वे॒वैनं॒ प्रति॑ष्ठापयति॒ स्रुचा॒वुप॑ दधा॒त्याज्य॑स्य पू॒र्णां का᳚र्ष्मर्य॒मयीं᳚ द॒द्ध्नः पू॒र्णा-मौदु॑बंरीमि॒यं ॅवै का᳚र्ष्मर्य॒मय्य॒सावौ-दु॑बंरी॒मे ए॒वोप॑ धत्ते - [ ]
पदपाठः (Word-by-word)
प्राञ्च᳚म् । उपेति॑ । द॒धा॒ति॒ । दा॒धार॑ । य॒ज॒मा॒न॒लो॒कमिति॑ यजमान - लो॒कम् । न । प॒शू॒नाम् । च॒ । यज॑मानस्य । च॒ । प्रा॒णमिति॑ प्र - अ॒नम् । अपीति॑ । द॒धा॒ति॒ । अथो॒ इति॑ । खलु॑ । इष्ट॑कायाः । आतृ॑ण्ण॒मित्या - तृ॒ण्ण॒म् । अनु॑ । उपेति॑ । द॒धा॒ति॒ । प्रा॒णाना॒मिति॑ प्र - अ॒नाना᳚म् । उथ्सृ॑ष्ट्या॒ इत्युत् - सृ॒ष्ट्यै॒ । द्र॒फ्सः । च॒स्क॒न्द॒ । इति॑ । अ॒भीति॑ । मृ॒श॒ति॒ । होत्रा॑सु । ए॒व । ए॒न॒म् । प्रतीति॑ । स्था॒प॒य॒ति॒ । स्रुचौ᳚ । उपेति॑ । द॒धा॒ति॒ । आज्य॑स्य । पू॒र्णाम् । का॒र्ष्म॒र्य॒मयी॒मिति॑ कार्ष्मर्य - मयी᳚म् । द॒द्ध्नः । पू॒र्णाम् । औदु॑बंरीम् । इ॒यम् । वै । का॒र्ष्म॒र्य॒मयीति॑ कार्ष्मर्य - मयी᳚ । अ॒सौ । औदु॑बंरी । इ॒मे इति॑ । ए॒व । उपेति॑ । ध॒त्ते॒ ।