प्रश्नः 2 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 5.2.7.4 TS 5.2.7.4
तू॒ष्णीमुप॑ दधाति॒ न हीमे यजु॒षाऽऽप्तु॒मर्.ह॑ति॒ दक्षि॑णां कार्ष्मर्य॒मयी॒-मुत्त॑रा॒मौ-दु॑म्बरीं॒ तस्मा॑द॒स्या अ॒सावुत्त॒रा ऽऽज्य॑स्य पू॒र्णां का᳚र्ष्मर्य॒मयीं॒ ॅवज्रो॒ वा आज्यं॒ ॅवज्रः॑ कार्ष्म॒र्यो॑ वज्रे॑णै॒व य॒ज्ञ्स्य॑ दक्षिण॒तो रक्षाꣳ॒॒स्यप॑ हन्ति द॒द्ध्नः पू॒र्णामौदु॑म्बरीं प॒शवो॒ वै दद्ध्यूर्गु॑दु॒म्बरः॑ प॒शुष्वे॒वोर्जं॑ दधाति पू॒र्णे उप॑ दधाति पू॒र्णे ए॒वैन॑ - [ ]
पदपाठः (Word-by-word)
तू॒ष्णीम् । उपेति॑ । द॒धा॒ति॒ । न । हि । इ॒मे इति॑ । यजु॑षा । आप्तु᳚म् । अर्.ह॑ति । दक्षि॑णाम् । का॒र्ष्म॒र्य॒मयी॒मिति॑ कार्ष्मर्य - मयी᳚म् । उत्त॑रा॒मित्युत् - त॒रा॒म् । औदु॑बंरीम् । तस्मा᳚त् । अ॒स्याः । अ॒सौ । उत्त॒रेत्युत् - त॒रा॒ । आज्य॑स्य । पू॒र्णाम् । का॒र्ष्म॒र्य॒मयी॒मिति॑ कार्ष्मर्य - मयी᳚म् । वज्रः॑ । वै । आज्य᳚म् । वज्रः॑ । का॒र्ष्म॒र्यः॑ । वज्रे॑ण । ए॒व । य॒ज्ञ्स्य॑ । द॒क्षि॒ण॒तः । रक्षाꣳ॑सि । अपेति॑ । ह॒न्ति॒ । द॒द्ध्नः । पू॒र्णाम् । औदु॑बंरीम् । प॒शवः॑ । वै । दधि॑ । ऊर्क् । उ॒दु॒बंरः॑ । प॒शुषु॑ । ए॒व । ऊर्ज᳚म् । द॒धा॒ति॒ । पू॒र्णे इति॑ । उपेति॑ । द॒धा॒ति॒ । पू॒र्णे इति॑ । ए॒व । ए॒न॒म् ।
पदसंख्या: 50