प्रश्नः 2 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 5.2.8.1 TS 5.2.8.1
स्व॒य॒मा॒तृ॒ण्णामुप॑ दधाती॒यं ॅवै स्व॑यमातृ॒ण्णेमामे॒वोप॑ ध॒त्ते ऽश्व॒मुप॑ घ्रापयति प्रा॒णमे॒वास्यां᳚ दधा॒त्यथो᳚ प्राजाप॒त्यो वा अश्वः॑ प्र॒जाप॑तिनै॒वाऽग्निं चि॑नुते प्रथ॒मेष्ट॑कोपधी॒यमा॑ना पशू॒नां च॒ यज॑मानस्य च प्रा॒णमपि॑ दधाति स्वयमातृ॒ण्णा भ॑वति प्रा॒णाना॒मुथ्सृ॑ष्ट्या॒ अथो॑ सुव॒र्गस्य॑ लो॒कस्यानु॑ख्यात्या अ॒ग्नाव॒ग्निश्चे॑त॒व्य॑ इत्या॑हुरे॒ष वा - [ ]
पदपाठः (Word-by-word)
स्व॒य॒मा॒तृ॒ण्णामिति॑ स्वयं - आ॒तृ॒ण्णाम् । उपेति॑ । द॒धा॒ति॒ । इ॒यम् । वै । स्व॒य॒मा॒तृ॒ण्णेति॑ स्वयं-आ॒तृ॒ण्णा । इ॒माम् । ए॒व । उपेति॑ । ध॒त्ते॒ । अश्व᳚म् । उपेति॑ । घ्रा॒प॒य॒ति॒ । प्रा॒णमिति॑ प्र-अ॒नम् । ए॒व । अ॒स्या॒म् । द॒धा॒ति॒ । अथो॒ इति॑ । प्रा॒जा॒प॒त्य इति॑ प्रजा - प॒त्यः । वै । अश्वः॑ । प्र॒जाप॑ति॒नेति॑ प्र॒जा - प॒ति॒ना॒ । ए॒व । अ॒ग्निम् । चि॒नु॒ते॒ । प्र॒थ॒मा । इष्ट॑का । उ॒प॒धी॒यमा॒नेत्यु॑प-धी॒यमा॑ना । प॒शू॒नाम् । च॒ । यज॑मानस्य । च॒ । प्रा॒णमिति॑ प्र - अ॒नम् । अपीति॑ । द॒धा॒ति॒ । स्व॒य॒मा॒तृ॒ण्णेति॑ स्वयं - आ॒तृ॒ण्णा । भ॒व॒ति॒ । प्रा॒णाना॒मिति॑ प्र - अ॒नाना᳚म् । उथ्सृ॑ष्ट्या॒ इत्युत् - सृ॒ष्ट्यै॒ । अथो॒ इति॑ । सु॒व॒र्गस्येति॑ सुवः-गस्य॑ । लो॒कस्य॑ । अनु॑ख्यात्या॒ इत्यनु॑ - ख्या॒त्यै॒ । अ॒ग्नौ । अ॒ग्निः । चे॒त॒व्यः॑ । इति॑ । आ॒हुः॒ । ए॒षः । वै ।
पदसंख्या: 50
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 स्वयमातृण्णामिति ॥ स्वयमेव शर्करां छिद्रिताम् । 'स्वयं क्तेन' इति समासः । कृदुत्तरपदप्रकृतिस्वरत्वम् । इयमिति । पृथिवीकल्पा, छिद्रवत्त्वाद्वा ॥
2 अश्वमित्यादि । गतम् ॥
3 प्रथमेति ॥ प्रथमं उपधीयमाना अपिदधाति । तच्च स्वयमातृण्णायाः छिद्रवत्तया प्राणानामुत्सृष्ट्यै भवति । सुवर्गस्य लोकस्य अनुख्यात्यै अनुवीक्षणाय भवति ॥
4 यजुष्कृतामिति ॥ 'ध्रुवाऽसि धरुणा' इत्यनेन मन्त्रेणाभिमृष्टाम् । ब्राह्मणश्चेति । अध्वर्युश्च सहोपदध्याताम् । अब्राह्मणस्याप्रसङ्गात् ब्राह्मणग्रहणं जातिमात्रप्रतिपत्त्यर्थम् । तेनाविद्वान् गृह्यते । वक्ष्यति च - 'योऽविद्वानिष्टकामुपदधाति' इति ॥
5 आर्तोरिति ॥ 'ईश्वरे तोसुन्कसुनौ' इति तोसुन् । उभयत्रापि 'तादौ च' इति गतेः प्रकृतिस्वरत्वम् । गोपोषं पुष्णातीतिवदेको धात्वर्थसामान्यवचनः । वरानिति । चतुर्वर्षा गौर्वरः । त्रय इति । प्रापानव्यानाः 'प्राण्यापान्यव्यान्य' इत्यादौ त्रयाणामेव ग्रहणात् । स्पृत्यै । स्पृ प्रीतौ ॥
6 प्राणापानौ 'प्राणापानौ मृत्योर्मा पातम्' इत्यादौ द्वयोरेव तयोर्ग्रहणात् । एको हीति । अन्येषां तद्विकल्पत्वान्मुख्यो गृह्यते । पशुर्वा इति । पशुसदृशोऽयमग्निः यत्र चरितव्यः तत्रैव रमन्ते खल्विति । यवसो घासः स एवायवसः स्वार्थिकोऽञ् । यवसाभावे न रमन्ते । यद्वा - यवसरहितो देशः आयवसः; छान्दसो वर्णविकारः । 'नञ्सुभ्याम्' इत्येतद्बाधित्वा बहुव्रीहिस्वरः पूर्वपदप्रकृतिस्वरत्वम् । यद्वा - आङीषदर्थे, अल्पभक्ष्ये देशे पशवो न रमन्ते । तस्मात् दूर्वेष्टकामुपदधाति प्रभूततृणत्वाय ॥
7 द्वाभ्यामिति ॥ 'काण्डात्काण्डात्' 'या शतेन' इत्येताभ्यां प्रतिष्ठित्यै भवति पशूनाम् । काण्डेनकाण्डेन हीति । सर्वेण काण्डेन ह्येषा पृथिव्यां प्रतिष्ठिता भवति । साहस्र इति । सहस्रलाभहेतुः । 'शतमानविंशतिक' इत्यण् ॥
8 देवलक्ष्ममित्यादि ॥ देवसम्बन्धि लक्षणं देवलक्ष्मम् । 'नपुंसकादन्यतरस्याम्' इत्यच् समासान्तः । यदियमषाढा त्र्यालिखिता भवति । त्रिरालिखिता त्र्यालिखिता । वृत्तौ सुजर्थोऽन्तर्भवति सप्तपर्णादिषु विस्पेव भवति? तिसृभिः लेखाभिरङ्कितेति यावत् । तामित्यादि । असुरा इति । उपादधतेत्येव । वसीयान् वसुमत्तरः । 'विन्मतोर्लुक्' 'टेः' इति टिलोपः ॥
9 असुरयोनिमिति ॥ असुरयोनिमनुप्रविष्टं एतं पराभूतं करोति ॥
10 अङ्गिरस इत्यादि ॥ कूर्मोपधानविधिः । यथेति । क्षेत्रज्ञो ह्यञ्जसा नयति आर्जवेन नयति । एवं कूर्मोऽपि स्वर्गमार्गज्ञः अञ्जसा नयति ॥
11 मेधो वा इत्यादि ॥ यज्ञतुल्यः इष्टसाधनत्वात् । उपतिष्ठन्ते समीपे तिष्ठन्ति । 'अकर्मकाच्च' इत्यात्मनेपदम् ॥
12 अश्मशानचिदिति ॥ श्मशानमिव चीयत इति । 'कर्मण्याख्यायाम्' इति क्विप् । वास्तव्य इति । सुखेन वस्ता वास्तव्यः । 'वसेस्तव्यत्कर्तरि णिच्च' इति तव्यत् । यस्मादनेन जीवता चिरं स्थातव्यमत्र तस्माद्दध्ना मधुमिश्रेणाभ्यनक्ति 'मधु वाता ऋतायते' इति तिसृभिः । एतत्स्वदयिता चिरं जीविष्यतीति । स्वदयतिः चुरादिरदन्तः ॥
13 ग्राम्यमिति ॥ 'ग्रामाद्यखञौ' इति यः । मही द्यौरिति गायत्र्या एनमवहारेण परिवेष्ट्य पुरस्तात्प्रत्यञ्चमुपदधाति । आभ्यामिति । द्यावापृथिवीभ्यामुपतिष्ठते इति । सङ्गतिकरणे आत्मनेपदम् ॥
14 यो वा इत्यादि ॥ उलूखलोपधानविधिः । गतः । तस्मान्मध्यत इति । मध्यमे वयसि देहमध्ये वा । आद्यादिभ्यस्तसिः ॥
15 इयदिति ॥ प्रादेशमात्रम् । इदं परिमाणमस्येति 'किमिदंभ्यां वोघः' इति 'इदं किमोरीश्की ' यस्येति इलोपः, उदात्तनिवृत्तिस्वरेण इकार उदात्तः । प्रजापतिनेति । 'यज्ञमुखं वै प्रजापतिः' इति प्रजापत्यात्मना परिमितेन यज्ञमुखेन सम्मितमिदमुलूखलम् । केचिदाहुः - यत्किंचित्परिमाणपरिमितमियत् प्रजापतिश्च परिमितिः परिमितात्मा, तस्मात्तत्तुल्यमिति । अन्नमेवाकरिति । अवघातेन अन्नमेवास्यै करोति उत्पादयति । छान्दसो लुङ्, 'मन्त्रे घस' इति च्लेर्लोपः ॥
16 वैष्णव्येति ॥ तद्विष्णोरिति गायत्री । उदात्तनिवृत्तिस्वरेण ङीप उदात्तत्वात् 'उदात्तयणः' इति विभक्तेरुदात्तत्वम् । विष्णुर्वा इति । वैष्णवे उलूखले वैष्णवीमृचं प्रयुञ्जानो यज्ञं प्रतिष्ठापयति । उभयोर्वैष्णवत्वाद्विष्णोश्च यज्ञत्वात् । वनस्पतिशब्दस्य सुट्स्वरावुक्तौ ॥
इति पञ्चमे द्वितीये अष्टमोनुवाकः ॥