-र्वा ए॒ष यद॒ग्निर्न खलु॒ वै प॒शव॒ आय॑वसे रमन्ते दूर्वेष्ट॒कामुप॑ दधाति पशू॒नां धृत्यै॒ द्वाभ्यां॒ प्रति॑ष्ठित्यै॒ काण्डा᳚त् काण्डात् प्र॒रोह॒न्तीत्या॑ह॒ काण्डे॑नकाण्डेन॒ ह्ये॑षा प्र॑ति॒तिष्ठ॑त्ये॒वा नो॑ दूर्वे॒ प्रत॑नु स॒हस्रे॑ण श॒तेन॒ चेत्या॑ह साह॒स्रः प्र॒जाप॑तिः प्र॒जाप॑ते॒राप्त्यै॑ देवल॒क्ष्मं ॅवै त्र्या॑लिखि॒ता तामुत्त॑रलक्ष्माणं दे॒वा उपा॑दध॒ता-ध॑रलक्ष्माण॒-मसु॑रा॒ यं - [ ]
पदपाठः (Word-by-word)
वै । ए॒षः । यत् । अ॒ग्निः । न । खलु॑ । वै । प॒शवः॑ । आय॑वसे । र॒म॒न्ते॒ । दू॒र्वे॒ष्ट॒कामिति॑ दूर्वा - इ॒ष्ट॒काम् । उपेति॑ । द॒धा॒ति॒ । प॒शू॒नाम् । धृत्यै᳚ । द्वाभ्या᳚म् । प्रति॑ष्ठित्या॒ इति॒ प्रति॑ - स्थि॒त्यै॒ । काण्डा᳚त्काण्डा॒दिति॒ काण्डा᳚त् - का॒ण्डा॒त् । प्र॒रोह॒न्तीति॑ प्र-रोह॑न्ती । इति॑ । आ॒ह॒ । काण्डे॑नकाण्डे॒नेति॒ काण्डे॑न - का॒ण्डे॒न॒ । हि । ए॒षा । प्र॒ति॒तिष्ठ॒तीति॑ प्रति - तिष्ठ॑ति । ए॒वा । नः॒ । दू॒र्वे॒ । प्रेति॑ । त॒नु॒ । स॒हस्रे॑ण । श॒तेन॑ । च॒ । इति॑ । आ॒ह॒ । सा॒ह॒स्रः । प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । प्र॒जाप॑ते॒रिति॑ प्र॒जा - प॒तेः॒ । आप्त्यै᳚ । दे॒व॒ल॒क्ष्ममिति॑ देव-ल॒क्ष्मम् । वै । त्र्या॒लि॒खि॒तेति॑ त्रि - आ॒लि॒खि॒ता । ताम् । उत्त॑रलक्ष्माण॒मित्युत्त॑र - ल॒क्ष्मा॒ण॒म् । दे॒वाः । उपेति॑ । अ॒द॒ध॒त॒ । अध॑रलक्ष्माण॒मित्यध॑र - ल॒क्ष्मा॒ण॒म् । असु॑राः । यम् ।