प्रश्नः 2 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 5.2.8.4 TS 5.2.8.4
का॒मये॑त॒ वसी॑यान्थ् स्या॒दित्युत्त॑रलक्ष्माणं॒ तस्योप॑ दद्ध्या॒द्-वसी॑याने॒व भ॑वति॒ यं का॒मये॑त॒ पापी॑यान्थ् स्या॒दित्यध॑रलक्ष्माणं॒ तस्योप॑ दद्ध्यादसुरयो॒नि-मे॒वैन॒मनु॒ परा॑ भावयति॒ पापी॑यान् भवति त्र्यालिखि॒ता भ॑वती॒मे वै लो॒कास्त्र्या॑लिखि॒तैभ्य ए॒व लो॒केभ्यो॒ भ्रातृ॑व्यम॒न्तरे॒त्यङ्गि॑रसः सुव॒र्गं ॅलो॒कं ॅय॒तः पु॑रो॒डाशः॑ कू॒र्मो भू॒त्वाऽनु॒ प्रास॑र्प॒ - [ ]
पदपाठः (Word-by-word)
का॒मये॑त । वसी॑यान् । स्या॒त् । इति॑ । उत्त॑रलक्ष्माण॒मित्युत्त॑र-ल॒क्ष्मा॒ण॒म् । तस्य॑ । उपेति॑ । द॒द्ध्या॒त् । वसी॑यान् । ए॒व । भ॒व॒ति॒ । यम् । का॒मये॑त । पापी॑यान् । स्या॒त् । इति॑ । अध॑रलक्ष्माण॒मित्यध॑र- ल॒क्ष्मा॒ण॒म् । तस्य॑ । उपेति॑ । द॒द्ध्या॒त् । अ॒सु॒र॒यो॒निमित्य॑सुर - यो॒निम् । ए॒व । ए॒न॒म् । अनु॑ । परेति॑ । भा॒व॒य॒ति॒ । पापी॑यान् । भ॒व॒ति॒ । त्र्या॒लि॒खि॒तेति॑ त्रि - आ॒लि॒खि॒ता । भ॒व॒ति॒ । इ॒मे । वै । लो॒काः । त्र्या॒लि॒खि॒तेति॑ त्रि - आ॒लि॒खि॒ता । ए॒भ्यः । ए॒व । लो॒केभ्यः॑ । भ्रातृ॑व्यम् । अ॒न्तः । ए॒ति॒ । अङ्गि॑रसः । सु॒व॒र्गमिति॑ सुवः - गम् । लो॒कम् । य॒तः । पु॒रो॒डाशः॑ । कू॒र्मः । भू॒त्वा । अनु॑ । प्रेति॑ । अ॒स॒र्प॒त् ।
पदसंख्या: 50