कू॒र्मो मधु॒ वाता॑ ऋताय॒त इति॑ द॒द्ध्ना म॑धुमि॒श्रेणा॒भ्य॑नक्ति स्व॒दय॑त्ये॒वैनं॑ ग्रा॒म्यं ॅवा ए॒तदन्नं॒ ॅयद्-दद्ध्या॑र॒ण्यं मधु॒ यद्द॒द्ध्ना म॑धुमि॒श्रेणा᳚ भ्य॒नक्त्यु॒भय॒स्या ऽव॑रुद्ध्यै म॒ही द्यौः पृ॑थि॒वी च॑ न॒ इत्या॑हा॒ ऽऽभ्यामे॒वैन॑मुभ॒यतः॒ परि॑गृह्णाति॒ प्राञ्च॒मुप॑ दधाति सुव॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै पु॒रस्ता᳚त् प्र॒त्यञ्च॒मुप॑ दधाति॒ तस्मा᳚त् - [ ]
पदपाठः (Word-by-word)
कू॒र्मः । मधु॑ । वाताः᳚ । ऋ॒ता॒य॒त इत्यृ॑त - य॒ते । इति॑ । द॒द्ध्ना । म॒धु॒मि॒श्रेणेति॑ मधु - मि॒श्रेण॑ । अ॒भीति॑ । अ॒न॒क्ति॒ । स्व॒दय॑ति । ए॒व । ए॒न॒म् । ग्रा॒म्यम् । वै । ए॒तत् । अन्न᳚म् । यत् । दधि॑ । आ॒र॒ण्यम् । मधु॑ । यत् । द॒द्ध्ना । म॒धु॒मि॒श्रेणेति॑ मधु - मि॒श्रेण॑ । अ॒भ्य॒नक्तीत्य॑भि - अ॒नक्ति॑ । उ॒भय॑स्य । अव॑रुद्ध्या॒ इत्यव॑-रु॒द्ध्यै॒ । म॒ही । द्यौः । पृ॒थि॒वी । च॒ । नः॒ । इति॑ । आ॒ह॒ । आ॒भ्याम् । ए॒व । ए॒न॒म् । उ॒भ॒यतः॑ । परीति॑ । गृ॒ह्णा॒ति॒ । प्राञ्च᳚म् । उपेति॑ । द॒धा॒ति॒ । सु॒व॒र्गस्येति॑ सुवः - गस्य॑ । लो॒कस्य॑ । सम॑ष्ट्या॒ इति॒ सं-अ॒ष्ट्यै॒ । पु॒रस्ता᳚त् । प्र॒त्यञ्च᳚म् । उपेति॑ । द॒धा॒ति॒ । तस्मा᳚त् ।