पु॒रस्ता᳚त् प्र॒त्यञ्चः॑ प॒शवो॒ मेध॒मुप॑ तिष्ठन्ते॒ यो वा अप॑नाभिम॒ग्निं चि॑नु॒ते यज॑मानस्य॒ नाभि॒मनु॒ प्रवि॑शति॒ स ए॑नमीश्व॒रो हिꣳसि॑तोरु॒लूख॑ल॒मुप॑ दधात्ये॒षा वा अ॒ग्नेर्नाभिः॒ सना॑भिमे॒वाऽग्निं चि॑नु॒ते हिꣳ॑साया॒ औदु॑म्बरं भव॒त्यूर्ग्वा उ॑दु॒म्बर॒ ऊर्ज॑मे॒वाव॑ रुन्धे मद्ध्य॒त उप॑ दधाति मद्ध्य॒त ए॒वास्मा॒ ऊर्जं॑ दधाति॒ तस्मा᳚न्-( )-मद्ध्य॒त ऊ॒र्जा भु॑ञ्जत॒ इय॑द्-भवति प्र॒जाप॑तिना यज्ञ्मु॒खेन॒ संमि॑त॒मव॑ ह॒न्त्यन्न॑मे॒वाक॑-र्वैष्ण॒व्यर्चोप॑ दधाति॒ विष्णु॒र्वै य॒ज्ञो वै᳚ष्ण॒वा वन॒स्पत॑यो य॒ज्ञ् ए॒व य॒ज्ञ्ं प्रति॑ष्ठापयति ॥
पदपाठः (Word-by-word)
पु॒रस्ता᳚त् । प्र॒त्यञ्चः॑ । प॒शवः॑ । मेध᳚म् । उपेति॑ । ति॒ष्ठ॒न्ते॒ । यः । वै । अप॑नाभि॒मित्यप॑ - ना॒भि॒म् । अ॒ग्निम् । चि॒नु॒ते । यज॑मानस्य । नाभि᳚म् । अनु॑ । प्रेति॑ । वि॒श॒ति॒ । सः । ए॒न॒म् । ई॒श्व॒रः । हिꣳसि॑तोः । उ॒लूख॑लम् । उपेति॑ । द॒धा॒ति॒ । ए॒षा । वै । अ॒ग्नेः । नाभिः॑ । सना॑भि॒मिति॒ स - ना॒भि॒म् । ए॒व । अ॒ग्निम् । चि॒नु॒त॒ । अहिꣳ॑सायै । औदु॑बंरम् । भ॒व॒ति॒ । ऊर्क् । वै । उ॒दु॒बंरः॑ । ऊर्ज᳚म् । ए॒व । अवेति॑ । रु॒न्धे॒ । म॒द्ध्य॒तः । उपेति॑ । द॒धा॒ति॒ । म॒द्ध्य॒तः । ए॒व । अ॒स्मै॒ । ऊर्ज᳚म् । द॒धा॒ति॒ । तस्मा᳚त् ( ) । म॒द्ध्य॒तः । ऊ॒र्जा । भु॒ञ्ज॒ते॒ । इय॑त् । भ॒व॒ति॒ । प्र॒जाप॑ति॒नेति॑ प्र॒जा - प॒ति॒ना॒ । य॒ज्ञ्॒मु॒खेनेति॑ यज्ञ् - मु॒खेन॑ । सम्मि॑त॒मिति॒ सं - मि॒त॒म् । अवेति॑ । ह॒न्ति॒ । अन्न᳚म् । ए॒व । अ॒कः॒ । वै॒ष्ण॒व्या । ऋ॒चा । उपेति॑ । द॒धा॒ति॒ । विष्णुः॑ । वै । य॒ज्ञ्ः । वै॒ष्ण॒वाः । वन॒स्पत॑यः । य॒ज्ञे । ए॒व । य॒ज्ञ्म् । प्रतीति॑ । स्था॒प॒य॒ति॒ ॥