विषू॒चीना॑नि॒ तस्योप॑ दद्ध्या॒द्-विषू॑च ए॒वास्मा᳚त् प॒शून् द॑धात्यप॒शुरे॒व भ॑वति॒ यं का॒मये॑त पशु॒मान्थ्-स्या॒दिति॑ समी॒चीना॑नि॒ तस्योप॑ दद्ध्याथ् स॒मीच॑ ए॒वास्मै॑ प॒शून् द॑धाति पशु॒माने॒व भ॑वति पु॒रस्ता᳚त् प्रती॒चीन॒मश्व॒स्योप॑ दधाति प॒श्चात् प्रा॒चीन॑मृष॒भस्या-प॑शवो॒ वा अ॒न्ये गो॑ अ॒श्वेभ्यः॑ प॒शवो॑ गो अ॒श्वाने॒वास्मै॑ स॒मीचो॑ दधात्ये॒-ताव॑न्तो॒ वै प॒शवो᳚ - [ ]
पदपाठः (Word-by-word)
वि॒षू॒चीना॑नि । तस्य॑ । उपेति॑ । द॒द्ध्या॒त् । विषू॑चः । ए॒व । अ॒स्मा॒त् । प॒शून् । द॒धा॒ति॒ । अ॒प॒शुः । ए॒व । भ॒व॒ति॒ । यम् । का॒मये॑त । प॒शु॒मानिति॑ पशु - मान् । स्या॒त् । इति॑ । स॒मी॒चीना॑नि । तस्य॑ । उपेति॑ । द॒द्ध्या॒त् । स॒मीचः॑ । ए॒व । अ॒स्मै॒ । प॒शून् । द॒धा॒ति॒ । प॒शु॒मानिति॑ पशु - मान् । ए॒व । भ॒व॒ति॒ । पु॒रस्ता᳚त् । प्र॒ती॒चीन᳚म् । अश्व॑स्य । उपेति॑ । द॒धा॒ति॒ । प॒श्चात् । प्रा॒चीन᳚म् । ऋ॒ष॒भस्य॑ । अप॑शवः । वै । अ॒न्ये । गो॒ अ॒श्वेभ्य॒ इति॑ गो -अ॒श्वेभ्यः॑ । प॒शवः॑ । गो॒ अ॒श्वानिति॑ गो - अ॒श्वान् । ए॒व । अ॒स्मै॒ । स॒मीचः॑ । द॒धा॒ति॒ । ए॒ताव॑न्तः । वै । प॒शवः॑ ।