भवति य॒ज्ञो दे॒वेभ्योऽपा᳚क्राम॒त् तम॑व॒रुधं॒ नाश॑क्नुव॒न्त ए॒ता य॑ज्ञ्त॒नूर॑पश्य॒न् ता उपा॑दधत॒ ताभि॒र्वै ते य॒ज्ञ्मवा॑रुन्धत॒ यद्-य॑ज्ञ्त॒नूरु॑प॒दधा॑ति य॒ज्ञ्मे॒व ताभि॒र्यज॑मा॒नोऽव॑ रुन्धे॒ त्रय॑स्त्रिꣳ शत॒मुप॑ दधाति॒ त्रय॑स्त्रिꣳश॒द्वै दे॒वता॑ दे॒वता॑ ए॒वाव॑ रु॒न्धे ऽथो॒ सात्मा॑नमे॒वाग्निꣳ सत॑नुं चिनुते॒ सात्मा॒ऽमुष्मि॑न् ॅलो॒के - [ ]
पदपाठः (Word-by-word)
भ॒व॒ति॒ । य॒ज्ञ्ः । दे॒वेभ्यः॑ । अपेति॑ । अ॒क्रा॒म॒त् । तम् । अ॒व॒रुध॒मित्य॑व - रुध᳚म् । न । अ॒श॒क्नु॒व॒न्न् । ते । ए॒ताः । य॒ज्ञ्॒त॒नूरिति॑ यज्ञ् - त॒नूः । अ॒प॒श्य॒न्न् । ताः । उपेति॑ । अ॒द॒ध॒त॒ । ताभिः॑ । वै । ते । य॒ज्ञ्म् । अवेति॑ । अ॒रु॒न्ध॒त॒ । यत् । य॒ज्ञ्॒त॒नूरिति॑ यज्ञ् - त॒नूः । उ॒प॒दधा॒तीत्यु॑प - दधा॑ति । य॒ज्ञ्म् । ए॒व । ताभिः॑ । यज॑मानः । अवेति॑ । रु॒न्धे॒ । त्रय॑स्त्रिꣳशत॒मिति॒ त्रयः॑ - त्रिꣳ॒॒श॒त॒म् । उपेति॑ । द॒धा॒ति॒ । त्रय॑स्त्रिꣳश॒दिति॒ त्रयः॑ - त्रिꣳ॒॒श॒त् । वै । दे॒वताः᳚ । दे॒वताः᳚ । ए॒व । अवेति॑ । रु॒न्धे॒ । अथो॒ इति॑ । सात्मा॑न॒मिति॒ स - आ॒त्मा॒न॒म् । ए॒व । अ॒ग्निम् । सत॑नु॒मिति॒ स-त॒नु॒म् । चि॒नु॒ते॒ । सात्मेति॒ स - आ॒त्मा॒ । अ॒मुष्मिन्॑ । लो॒के ।