भ॑वति॒ य ए॒वं ॅवेद॒ ज्योति॑ष्मती॒रुप॑ दधाति॒ ज्योति॑रे॒वास्मि॑न् दधात्ये॒ताभि॒र्वा अ॒ग्निश्चि॒तो ज्व॑लति॒ ताभि॑रे॒वैनꣳ॒॒ समि॑न्ध उ॒भयो॑रस्मै लो॒कयो॒र्ज्योति॑र्भवति नक्षत्रेष्ट॒का उप॑ दधात्ये॒तानि॒ वै दि॒वो ज्योतीꣳ॑षि॒ तान्ये॒वाव॑ रुन्धे सु॒कृतां॒ ॅवा ए॒तानि॒ ज्योतीꣳ॑षि॒ यन्नक्ष॑त्राणि॒ तान्ये॒वाऽऽ*प्नो॒त्यथो॑ अनूका॒शमे॒वैतानि॒ - [ ]
पदपाठः (Word-by-word)
भ॒व॒ति॒ । यः । ए॒वम् । वेद॑ । ज्योति॑ष्मतीः । उपेति॑ । द॒धा॒ति॒ । ज्योतिः॑ । ए॒व । अ॒स्मि॒न्न् । द॒धा॒ति॒ । ए॒ताभिः॑ । वै । अ॒ग्निः । चि॒तः । ज्व॒ल॒ति॒ । ताभिः॑ । ए॒व । ए॒न॒म् । समिति॑ । इ॒न्धे॒ । उ॒भयोः᳚ । अ॒स्मै॒ । लो॒कयोः᳚ । ज्योतिः॑ । भ॒व॒ति॒ । न॒क्ष॒त्रे॒ष्ट॒का इति॑ नक्षत्र - इ॒ष्ट॒काः । उपेति॑ । द॒धा॒ति॒ । ए॒तानि॑ । वै । दि॒वः । ज्योतीꣳ॑षि । तानि॑ । ए॒व । अवेति॑ । रु॒न्धे॒ । सु॒कृता॒मिति॑ सु - कृता᳚म् । वै । ए॒तानि॑ । ज्योतीꣳ॑षि । यत् । नक्ष॑त्राणि । तानि॑ । ए॒व । आ॒प्नो॒ति॒ । अथो॒ इति॑ । अ॒नू॒का॒शमित्य॑नु - का॒शम् । ए॒व । ए॒तानि॑ ।