प्रश्नः 4 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 5.4.10.2 TS 5.4.10.2
-द्वा अ॒ग्निर्यावा॑ने॒वा-ग्निस्तं ॅयु॑नक्ति॒ यथाऽन॑सि यु॒क्त आ॑धी॒यत॑ ए॒वमे॒व तत् प्रत्याहु॑तय॒स्तिष्ठ॑न्ति॒ प्रति॒ स्तोमाः॒ प्रत्यु॒क्थानि॑ यज्ञाय॒ज्ञिय॑स्य स्तो॒त्रे द्वाभ्या॑म॒भि मृ॑शत्ये॒तावा॒न्॒ वै य॒ज्ञो यावा॑नग्निष्टो॒मो भू॒मा त्वा अ॒स्यात॑ ऊ॒र्द्ध्वः क्रि॑यते॒ यावा॑ने॒व य॒ज्ञ्स्तम॑न्त॒तो᳚ ऽन्वारो॑हति॒ द्वाभ्यां॒ प्रति॑ष्ठित्या॒ एक॒याऽप्र॑स्तुतं॒ भव॒त्यथा॒ - [ ]
पदपाठः (Word-by-word)
वै । अ॒ग्निः । यावान्॑ । ए॒व । अ॒ग्निः । तम् । यु॒न॒क्ति॒ । यथा᳚ । अन॑सि । यु॒क्ते । आ॒धी॒यत॒ इत्या᳚ - धी॒यते᳚ । ए॒वम् । ए॒व । तत् । प्रतीति॑ । आहु॑तय॒ इत्या - हु॒त॒यः॒ । तिष्ठ॑न्ति । प्रतीति॑ । स्तोमाः᳚ । प्रतीति॑ । उ॒क्थानि॑ । य॒ज्ञा॒य॒ज्ञिय॑स्य । स्तो॒त्रे । द्वाभ्या᳚म् । अ॒भीति॑ । मृ॒श॒ति॒ । ए॒तावान्॑ । वै । य॒ज्ञ्ः । यावान्॑ । अ॒ग्नि॒ष्टो॒म इत्य॑ग्नि - स्तो॒मः । भू॒मा । तु । वै । अ॒स्य॒ । अतः॑ । ऊ॒द्‌र्ध्वः । क्रि॒य॒ते॒ । यावान्॑ । ए॒व । य॒ज्ञ्ः । तम् । अ॒न्त॒तः । अ॒न्वारो॑ह॒तीत्य॑नु - आरो॑हति । द्वाभ्या᳚म् । प्रति॑ष्ठित्या॒ इति॒ प्रति॑ - स्थि॒त्यै॒ । एक॑या । अप्र॑स्तुत॒मित्यप्र॑-स्तु॒त॒म् । भव॑ति । अथ॑ ।
पदसंख्या: 50