-भि मृ॑श॒त्युपै॑न॒मुत्त॑रो य॒ज्ञो न॑म॒त्यथो॒ संत॑त्यै॒ प्र वा ए॒षो᳚ऽस्मान् ॅलो॒काच्च्य॑वते॒ यो᳚ऽग्निं चि॑नु॒ते न वा ए॒तस्या॑निष्ट॒क आहु॑ति॒रव॑ कल्पते॒ यां ॅवा ए॒षो॑ऽनिष्ट॒क आहु॑तिं जु॒होति॒ स्रव॑ति॒ वै सा ताꣳ स्रव॑न्तीं ॅय॒ज्ञोऽनु॒ परा॑ भवति य॒ज्ञ्ं ॅयज॑मानो॒ यत् पु॑नश्चि॒तिं चि॑नु॒त आहु॑तीनां॒ प्रति॑ष्ठित्यै॒ प्रत्याहु॑तय॒स्तिष्ठ॑न्ति॒ - [ ]
पदपाठः (Word-by-word)
अ॒भीति॑ । मृ॒श॒ति॒ । उपेति॑ । ए॒न॒म् । उत्त॑र॒ इत्युत् - त॒रः॒ । य॒ज्ञ्ः । न॒म॒ति॒ । अथो॒ इति॑ । संत॑त्या॒ इति॒ सं - त॒त्यै॒ । प्रेति॑ । वै । ए॒षः । अ॒स्मात् । लो॒कात् । च्य॒व॒ते॒ । यः । अ॒ग्निम् । चि॒नु॒ते । न । वै । ए॒तस्य॑ । अ॒नि॒ष्ट॒के । आहु॑ति॒रित्या - हु॒तिः॒ । अवेति॑ । क॒ल्प॒ते॒ । याम् । वै । ए॒षः । अ॒नि॒ष्ट॒के । आहु॑ति॒मित्या - हु॒ति॒म् । जु॒होति॑ । स्रव॑ति । वै । सा । ताम् । स्रव॑न्तीम् । य॒ज्ञ्ः । अनु॑ । परेति॑ । भ॒व॒ति॒ । य॒ज्ञ्म् । यज॑मानः । यत् । पु॒न॒श्चि॒तिमिति॑ पुनः - चि॒तिम् । चि॒नु॒ते । आहु॑तीना॒मित्या-हु॒ती॒ना॒म् । प्रति॑ष्ठित्या॒ इति॒ प्रति॑-स्थि॒त्यै॒ । प्रतीति॑ । आहु॑तय॒ इत्या - हु॒त॒यः॒ । तिष्ठ॑न्ति ।