-व भ्रातृ॑व्यान् नुदत उभ॒यतः॑ प्रौगं चिन्वीत॒यः का॒मये॑त॒ प्रजा॒तान् भ्रातृ॑व्यान् नु॒देय॒ प्रति॑ जनि॒ष्यमा॑णा॒निति॒ प्रैव जा॒तान् भ्रातृ॑व्यान् नु॒दते॒ प्रति॑ जनि॒ष्यमा॑णान् रथचक्र॒चितं॑ चिन्वीत॒ भ्रातृ॑व्यवा॒न्॒ वज्रो॒ वै रथो॒ वज्र॑मे॒व भ्रातृ॑व्येभ्यः॒ प्रह॑रति द्रोण॒चितं॑ चिन्वी॒तान्न॑कामो॒ द्रोणे॒ वा अन्नं॑ भ्रियते॒ सयो᳚न्ये॒वान्न॒मव॑ रुन्धे समू॒ह्यं॑ चिन्वीत प॒शुका॑मः पशु॒माने॒व भ॑वति - [ ]
पदपाठः (Word-by-word)
ए॒व । भ्रातृ॑व्यान् । नु॒द॒ते॒ । उ॒भ॒यतः॑ प्रउग॒मित्यु॑भ॒यतः॑ - प्र॒उ॒ग॒म् । चि॒न्वी॒त॒ । यः । का॒मये॑त । प्रेति॑ । जा॒तान् । भ्रातृ॑व्यान् । नु॒देय॑ । प्रतीति॑ । ज॒नि॒ष्यमा॑णान् । इति॑ । प्रेति॑ । ए॒व । जा॒तान् । भ्रातृ॑व्यान् । नु॒दते᳚ । प्रतीति॑ । ज॒नि॒ष्यमा॑णान् । र॒थ॒च॒क्र॒चित॒मिति॑ रथचक्र - चित᳚म् । चि॒न्वी॒त॒ । भ्रातृ॑व्यवा॒निति॒ भ्रातृ॑व्य - वा॒न् । वज्रः॑ । वै । रथः॑ । वज्र᳚म् । ए॒व । भ्रातृ॑व्येभ्यः । प्रेति॑ । ह॒र॒ति॒ । द्रो॒ण॒चित॒मिति॑ द्रोण - चित᳚म् । चि॒न्वी॒त॒ । अन्न॑काम॒ इत्यन्न॑-का॒मः॒ । द्रोणे᳚ । वै । अन्न᳚म् । भ्रि॒य॒ते॒ । सयो॒नीति॒ स-यो॒नि॒ । ए॒व । अन्न᳚म् । अवेति॑ । रु॒न्धे॒ । स॒मू॒ह्य॑मिति॑ सं - ऊ॒ह्य᳚म् । चि॒न्वी॒त॒ । प॒शुका॑म॒ इति॑ प॒शु - का॒मः॒ । प॒शु॒मानिति॑ पशु -मान् । ए॒व । भ॒व॒ति॒ ।