परिचा॒य्यं॑ चिन्वीत॒ ग्राम॑कामो ग्रा॒म्ये॑व भ॑वति श्मशान॒चितं॑ चिन्वीत॒ यः का॒मये॑त पितृलो॒क ऋ॑द्ध्नुया॒मिति॑ पितृलो॒क ए॒वर्द्ध्नो॑ति विश्वामित्रजमद॒ग्नी वसि॑ष्ठेनाऽस्पर्द्धेताꣳ॒॒ स ए॒ता ज॒मद॑ग्निर्विह॒व्या॑ अपश्य॒त् ता उपा॑धत्त॒ ताभि॒र्वै स वसि॑ष्ठस्येन्द्रि॒यं ॅवी॒र्य॑मवृङ्क्त॒ यद्-वि॑ह॒व्या॑ उप॒दधा॑तीन्द्रि॒यमे॒व ताभि॑र्वी॒र्यं॑ ॅयज॑मानो॒ भ्रातृ॑व्यस्य वृङ्क्ते॒ होतु॒र्द्धिष्णि॑य॒ उप॑ दधाति यजमानायत॒नं ॅवै - [ ]
पदपाठः (Word-by-word)
प॒रि॒चा॒य्य॑मिति॑ परि - चा॒य्य᳚म् । चि॒न्वी॒त॒ । ग्राम॑काम॒ इति॒ ग्राम॑ - का॒मः॒ । ग्रा॒मी । ए॒व । भ॒व॒ति॒ । श्म॒शा॒न॒चित॒मिति॑ श्मशान - चित᳚म् । चि॒न्वी॒त॒ । यः । का॒मये॑त । पि॒तृ॒लो॒क इति॑ पितृ - लो॒के । ऋ॒द्ध्नु॒या॒म् । इति॑ । पि॒तृ॒लो॒क इति॑ पितृ - लो॒के । ए॒व । ऋ॒द्ध्नो॒ति॒ । वि॒श्वा॒मि॒त्र॒ज॒म॒द॒ग्नी इति॑ विश्वामित्र - ज॒म॒द॒ग्नी । वसि॑ष्ठेन । अ॒स्प॒द्र्धे॒ता॒म् । सः । ए॒ताः । ज॒मद॑ग्निः । वि॒ह॒व्या॑ इति॑ वि - ह॒व्याः᳚ । अ॒प॒श्य॒त् । ताः । उपेति॑ । अ॒ध॒त्त॒ । ताभिः॑ । वै । सः । वसि॑ष्ठस्य । इ॒न्द्रि॒यम् । वी॒र्य᳚म् । अ॒वृ॒ङ्क्त॒ । यत् । वि॒ह॒व्या॑ इति॑ वि - ह॒व्याः᳚ । उ॒प॒दधा॒तीत्यु॑प - दधा॑ति । इ॒न्द्रि॒यम् । ए॒व । ताभिः॑ । वी॒र्य᳚म् । यज॑मानः । भ्रातृ॑व्यस्य । वृ॒ङ्क्ते॒ । होतुः॑ । धिष्णि॑ये । उपेति॑ । द॒धा॒ति॒ । य॒ज॒मा॒ना॒य॒त॒नमिति॑ यजमान - आ॒य॒त॒नम् । वै ।