होता॒ स्व ए॒वास्मा॑ आ॒यत॑न इन्द्रि॒यं ॅवी॒र्य॑मव॑ रुन्धे॒ द्वाद॒शोप॑ दधाति॒ द्वाद॑शाक्षरा॒ जग॑ती॒ जाग॑ताः प॒शवो॒ जग॑त्यै॒वास्मै॑ प॒शूनव॑ रुन्धे॒ ऽष्टाव॑ष्टाव॒न्येषु॒ धिष्णि॑ये॒षूप॑ दधात्य॒ष्टाश॑फाः प॒शवः॑ प॒शूने॒वाव॑ रुन्धे॒ षण्मा᳚र्जा॒लीये॒ षड् वा ऋ॒तव॑ ऋ॒तवः॒ खलु॒ वै दे॒वाः पि॒तर॑ ऋ॒तूने॒व दे॒वान् पि॒तॄन् प्री॑णाति ॥
पदपाठः (Word-by-word)
होता᳚ । स्वे । ए॒व । अ॒स्मै॒ । आ॒यत॑न॒ इत्या᳚ - यत॑ने । इ॒न्द्रि॒यम् । वी॒र्य᳚म् । अवेति॑ । रु॒न्धे॒ । द्वाद॑श । उपेति॑ । द॒धा॒ति॒ । द्वाद॑शाक्ष॒रेति॒ द्वाद॑श - अ॒क्ष॒रा॒ । जग॑ती । जाग॑ताः । प॒शवः॑ । जग॑त्या । ए॒व । अ॒स्मै॒ । प॒शून् । अवेति॑ । रु॒न्धे॒ । अ॒ष्टाव॑ष्टा॒वित्य॒ष्टौ-अ॒ष्टौ॒ । अ॒न्येषु॑ । धिष्णि॑येषु । उपेति॑ । द॒धा॒ति॒ । अ॒ष्टाश॑फा॒ इत्य॒ष्टा - श॒फाः॒ । प॒शवः॑ । प॒शून् । ए॒व । अवेति॑ । रु॒न्धे॒ । षट् । मा॒र्जा॒लीये᳚ । षट् । वै । ऋ॒तवः॑ । ऋ॒तवः॑ । खलु॑ । वै । दे॒वाः । पि॒तरः॑ । ऋ॒तून् । ए॒व । दे॒वान् । पि॒तॄन् । प्री॒णा॒ति॒ ॥