यस्मि॒न्नश्व॑ आल॒भ्यते॒ द्वाद॑श॒ मासाः॒ पञ्च॒र्तव॒स्त्रय॑ इ॒मे लो॒का अ॒सावा॑दि॒त्य ए॑कविꣳ॒॒श ए॒ष प्र॒जाप॑तिः प्राजाप॒त्योऽश्व॒स्तमे॒व सा॒क्षादृ॑द्ध्नोति॒ शक्व॑रयः पृ॒ष्ठं भ॑वन्त्य॒न्-यद॑न्य॒-च्छन्दो॒ऽन्ये᳚न्ये॒ वा ए॒ते प॒शव॒ आ ल॑भ्यन्त उ॒तेव॑ ग्रा॒म्या उ॒तेवा॑ऽऽ*र॒ण्या यच्छक्व॑रयः पृ॒ष्ठं भव॒न्त्यश्व॑स्य सर्व॒त्वाय॑ पार्थुर॒श्मं ब्र॑ह्मसा॒मं भ॑वति र॒श्मिना॒ वा अश्वो॑ - [ ]
पदपाठः (Word-by-word)
यस्मिन्न्॑ । अश्वः॑ । आ॒ल॒भ्यत॒ इत्या᳚ - ल॒भ्यते᳚ । द्वाद॑श । मासाः᳚ । पञ्च॑ । ऋ॒तवः॑ । त्रयः॑ । इ॒मे । लो॒काः । अ॒सौ । आ॒दि॒त्यः । ए॒क॒विꣳ॒॒श इत्ये॑क - विꣳ॒॒शः । ए॒षः । प्र॒जाप॑ति॒रिति॑ प्र॒जा-प॒तिः॒ । प्रा॒जा॒प॒त्य इति॑ प्राजा - प॒त्यः । अश्वः॑ । तम् । ए॒व । सा॒क्षादिति॑ स - अ॒क्षात् । ऋ॒द्ध्नो॒ति॒ । शक्व॑रयः । पृ॒ष्ठम् । भ॒व॒न्ति॒ । अ॒न्यद॑न्य॒दित्य॒न्यत् - अ॒न्य॒त् । छन्दः॑ । अ॒न्ये᳚ऽन्य॒ इत्य॒न्ये - अ॒न्ये॒ । वै । ए॒ते । प॒शवः॑ । एति॑ । ल॒भ्य॒न्ते॒ । उ॒त । इ॒व॒ । ग्रा॒म्याः । उ॒त । इ॒व॒ । आ॒र॒ण्याः । यत् । शक्व॑रयः । पृ॒ष्ठम् । भव॑न्ति । अश्व॑स्य । स॒र्व॒त्वायेति॑ सर्व - त्वाय॑ । पा॒र्थु॒र॒श्ममिति॑ पार्थु - र॒श्मम् । ब्र॒ह्म॒सा॒ममिति॑ ब्रह्म - सा॒मम् । भ॒व॒ति॒ । र॒श्मिना᳚ । वै । अश्वः॑ ।