प्रश्नः 4 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 5.4.12.3 TS 5.4.12.3
य॒त ई᳚श्व॒रो वा अश्वोऽय॒तोऽप्र॑तिष्ठितः॒ परां᳚ परा॒वतं॒ गन्तो॒र्यत् पा᳚र्थुर॒श्मं ब्र॑ह्मसा॒मं भव॒त्यश्व॑स्य॒ यत्यै॒ धृत्यै॒ संकृ॑त्यच्छावाकसा॒मं भ॑वत्युथ्सन्नय॒ज्ञो वा ए॒ष यद॑श्वमे॒धः कस्तद्वे॒देत्या॑हु॒र्यदि॒ सर्वो॑ वा क्रि॒यते॒ न वा॒ सर्व॒ इति॒ यथ् संकृ॑त्यच्छावाकसा॒मं भव॒त्यश्व॑स्य सर्व॒त्वाय॒ पर्या᳚प्त्या॒ अन॑न्तरायाय॒ सर्व॑स्तोमोऽतिरा॒त्र उ॑त्त॒ममह॑र्भवति॒ ( ) सर्व॒स्याऽऽ*प्त्यै॒ सर्व॑स्य॒ जित्यै॒ सर्व॑मे॒व तेना᳚ऽऽ*प्नोति॒ सर्वं॑ जयति ॥
पदपाठः (Word-by-word)
य॒तः । ई॒श्व॒रः । वै । अश्वः॑ । अय॑तः । अप्र॑तिष्ठित॒ इत्यप्र॑ति-स्थि॒तः॒ । परा᳚म् । प॒रा॒वत॒मिति॑ परा - वत᳚म् । गन्तोः᳚ । यत् । पा॒र्थु॒र॒श्ममिति॑ पार्थु - र॒श्मम् । ब्र॒ह्म॒सा॒ममिति॑ ब्रह्म - सा॒मम् । भव॑ति । अश्व॑स्य । यत्यै᳚ । धृत्यै᳚ । संकृ॒तीति॒ सं - कृ॒ति॒ । अ॒च्छा॒वा॒क॒सा॒ममित्य॑च्छावाक - सा॒मम् । भ॒व॒ति॒ । उ॒थ्स॒न्न॒य॒ज्ञ् इत्यु॑थ्सन्न - य॒ज्ञ्ः । वै । ए॒षः । यत् । अ॒श्व॒मे॒ध इत्य॑श्व - मे॒धः । कः । तत् । वे॒द॒ । इति॑ । आ॒हुः॒ । यदि॑ । सर्वः॑ । वा॒ । क्रि॒यते᳚ । न । वा॒ । सर्वः॑ । इति॑ । यत् । संकृ॒तीति॒ सं - कृ॒ति॒ । अ॒च्छा॒वा॒क॒सा॒ममित्य॑च्छावाक - स॒मम् । भव॑ति । अश्व॑स्य । स॒र्व॒त्वायेति॑ सर्व - त्वाय॑ । पर्या᳚प्त्या॒ इति॒ परि॑ - आ॒प्त्यै॒ । अन॑न्तराया॒येत्यन॑न्तः - आ॒या॒य॒ । सर्व॑स्तोम॒ इति॒ सर्व॑ - स्तो॒मः॒ । अ॒ति॒रा॒त्र इत्य॑ति - रा॒त्रः । उ॒त्त॒ममित्यु॑त् - त॒मम् । अहः॑ । भ॒व॒ति॒ ( ) । सर्व॑स्य । आप्त्यै᳚ । सर्व॑स्य । जित्यै᳚ । सर्व᳚म् । ए॒व । तेन॑ । आ॒प्नो॒ति॒ । सर्व᳚म् । ज॒य॒ति॒ ॥
पदसंख्या: 60