प्रश्नः 4 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 5.4.2.1 TS 5.4.2.1
ऋ॒त॒व्या॑ उप॑ दधात्यृतू॒नां क्लृप्त्यै᳚ द्व॒द्वंमुप॑ दधाति॒ तस्मा᳚द् द्व॒न्द्वमृ॒तवो ऽधृ॑तेव॒ वा ए॒षा यन्म॑द्ध्य॒मा चिति॑र॒न्तरि॑क्षमिव॒ वा ए॒षा द्व॒द्वंम॒न्यासु॒ चिती॒षूप॑ दधाति॒ चत॑स्रो॒ मद्ध्ये॒ धृत्या॑ अन्त॒श्श्लेष॑णं॒ ॅवा ए॒ताश्चिती॑नां॒ ॅयदृ॑त॒व्या॑ यदृ॑त॒व्या॑ उप॒दधा॑ति॒ चिती॑नां॒ ॅविधृ॑त्या॒ अव॑का॒मनूप॑ दधात्ये॒षा वा अ॒ग्नेर्योनिः॒ सयो॑नि - [ ]
पदपाठः (Word-by-word)
ऋ॒त॒व्याः᳚ । उपेति॑ । द॒धा॒ति॒ । ऋ॒तू॒नाम् । क्लृप्त्यै᳚ । द्व॒द्वंमिति॑ द्वं-द्वम् । उपेति॑ । द॒धा॒ति॒ । तस्मा᳚त् । द्व॒द्वंमिति॑ द्वं - द्वम् । ऋ॒तवः॑ । अधृ॑ता । इ॒व॒ । वै । ए॒षा । यत् । म॒द्ध्य॒मा । चितिः॑ । अ॒न्तरि॑क्षम् । इ॒व॒ । वै । ए॒षा । द्व॒द्वंमिति॑ द्वं - द्वम् । अ॒न्यासु॑ । चिती॑षु । उपेति॑ । द॒धा॒ति॒ । चत॑स्रः । मद्ध्ये᳚ । धृत्यै᳚ । अ॒न्त॒श्श्लेष॑ण॒मित्य॑न्तः - श्लेष॑णम् । वै । ए॒ताः । चिती॑नाम् । यत् । ऋ॒त॒व्याः᳚ । यत् । ऋ॒त॒व्याः᳚ । उ॒प॒दधा॒तीत्यु॑प - दधा॑ति । चिती॑नाम् । विधृ॑त्या॒ इति॒ वि - धृ॒त्यै॒ । अव॑काम् । अनु॑ । उपेति॑ । द॒धा॒ति॒ । ए॒षा । वै । अ॒ग्नेः । योनिः॑ । सयो॑नि॒मिति॒ स - यो॒नि॒म् ।
पदसंख्या: 50
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 ऋतव्या इत्यादि ॥ 'मधुश्च माधवश्च' इत्याद्या द्वेद्वे प्रतीचीति । मध्यमायान्तु चतस्रः । ऋतुशब्दवन्मन्त्रेणोपधेयाः । पूर्ववद्यत् । कॢप्त्या इति । विभागसामर्थ्यात् यद्द्वन्द्वमुपदधाति द्वेद्वे इष्टके समानतया देवते । यज्ञपात्रप्रयोगे द्वन्द्वमिति निपातनम् । तस्माद्द्वन्द्वमिति । द्वौद्वौ मासावृतवः । अभिव्यक्तौ निपातनम् ॥
2 अधृतेव वा इति । अत्र हेतुः अन्तरिक्षमिवेति । मध्यमत्वसामान्यात् । द्वन्द्वमन्यास्वित्यादि । गतम् । मध्य इति । मध्यमायां चितौ । धृत्या इति । तस्या धारणाय भवति ॥
3 अन्तश्श्लेषणमिति ॥ चित्यन्तराळानां श्लेषणं सन्धानं अश्लथत्वं तदर्थमेता ऋतव्याः सन्धानार्था इति यावत् । तस्मादासामुपधानं चितीनां विधृत्यै अश्लथत्वायैव भवति । अवका शैवालं ऋतव्यानामन्तरमुपदधाति । एषा वा इति । अप्सुयोनिरग्निः ताभिश्चावकाया अभेद उपचर्यते । सयोनिमिति । कारणेन सह चिनुते ॥
4 उवाच हेत्यादि ॥ व्याख्यातम् । ऋतव्यानामेव स्तुतिः ॥
5 संवत्सरो वा इत्यादि षष्ठ्याश्चितेर्विधिः ॥ यश्चित्वाप्यग्निं न प्रतितिष्ठति संवत्सरः खल्वेनं प्रतिष्ठाय नुदते च्यावयति । तत्र पञ्च पूर्वाश्चितयो भवन्ति किं ताभिः । अथ पञ्चानामन्ते षष्ठीं चितिं चिनुते । षड्वा ऋतव इत्यादि । गतम् ॥
6 एता वा इति ॥ षष्ठ्याश्चितेः सम्बन्धिन्यः अधिपत्न्यो नामेष्टकाः 'संयच्च प्रचेताश्च' इत्याद्याः पञ्च एकैका दिक्षु एका मध्ये । यस्येत्यादि व्याख्यातम् ॥
7 अङ्गिरस इत्यादि ॥ निष्कृतिः निष्क्रयः यया यज्ञ आत्मसात् क्रियते तामृषिभ्यः प्रत्यौहन् प्रति ददुः तामृषिभ्यो दक्षिणां दत्वा स्वर्गं गताः निष्कतात्मानः । तद्धिरण्यं स्वर्णमभवत् । तस्माद्धिरण्यशकलैः प्रोक्षणं यज्ञस्य निष्क्रयाय । अथो अपि च अस्मै यज्ञय भेषजं दुरितशमनं करोति । अपि चैनं यज्ञं रूपसमृद्धं करोति । उभयत्रापि अन्वादेशोनुदात्तः । अथो यजमानोपि हिरण्यज्योतिषा रूपेण स्वर्गं गच्छति ॥
8 साहस्रवतेति ॥ 'शतमानविंशतिक' इत्यण् । 'सहस्रस्य प्रमा असि' इत्यादिमन्त्रगताः प्रमादयः सहस्रशब्देनोच्यन्ते । तद्वतामन्त्रेण 'सहत्रस्य प्रमा असि' इत्यादिना प्रोक्षति द्वाभ्यां द्वाभ्यां शताभ्यां प्रतिदिशं एकैकेन मन्त्रेण प्रोक्षति मध्यमोत्तमाभ्यां प्राङ्मुखः । यद्वा - सहस्रपरिमाणवता हिरण्यशकलसमूहेन प्रोक्षति । सहस्रमेववा साहत्रं सहस्रशब्दवता मन्त्रेणेति । साहस्र इत्यादि गतम् ॥
9 इमा मे अग्न इत्यादि ॥ अनेन मन्त्रेण श्रोण्यन्ते तिष्ठन्नुत्तरा धनूः या धेतुस्थनीया एवेष्टकाः कुरुते । ताश्च कामदुघाः सर्वान्कामानस्मै दुहते । अमुत्र द्युलोके अमुष्मिंश्च प्राजापत्यादि लोके एनमुपतिष्ठन्ते यत्रेच्छति यथा वा इमा इच्छति तथा 'एका च शतं च सहस्रं च' इत्यादि भावेनोपतिष्ठते । यच्चान्यदिच्छति तच्चास्मै दुहाना ऋतावृधो घृतश्चुतो मधुश्चुत ऊर्जस्वत्यः स्वधावत्यश्च तत्र भवन्ति । किञ्च या एता विराजो नाम कामदुघा इष्ठका अमुत्र द्युलोके अमुष्मिंश्च ऐन्द्रे ब्राह्मे प्राजापत्ये तत्र च लोके वर्तन्ते । तत्रतत्र च यथाभिमते लोके एता एव भूत्वा इष्टका धेनवो यजमानमुपतिष्ठन्ति ॥
इति पञ्चमस्य चतुर्थे द्वितीयोनुवाकः ॥