प्रश्नः 4 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 5.4.2.3 TS 5.4.2.3
अधि॑पत्नी॒र्नामेष्ट॑का॒ यस्यै॒ता उ॑पधी॒यन्तेऽधि॑पतिरे॒व स॑मा॒नानां᳚ भवति॒ यं द्वि॒ष्यात् तमु॑प॒दध॑द् ध्यायेदे॒ताभ्य॑ ए॒वैनं॑ देवता᳚भ्य॒ आ वृ॑श्चति ता॒जगार्ति॒मार्च्छ॒त्यङ्गि॑रसः सुव॒र्गं ॅलो॒कं ॅयन्तो॒ या य॒ज्ञ्स्य॒ निष्कृ॑ति॒रासी॒त् तामृषि॑भ्यः॒ प्रत्यौ॑ह॒न् तद्धिर॑ण्यमभव॒द्य-द्धि॑रण्यश॒ल्कैः प्रो॒क्षति॑ य॒ज्ञ्स्य॒ निष्कृ॑त्या॒ अथो॑ भेष॒जमे॒वास्मै॑ करो॒त्य - [ ]
पदपाठः (Word-by-word)
अधि॑पत्नी॒रित्यधि॑ - प॒त्नीः॒ । नाम॑ । इष्ट॑काः । यस्य॑ । ए॒ताः । उ॒प॒धी॒यन्त॒ इत्यु॑प - धी॒यन्ते᳚ । अधि॑पति॒रित्यधि॑ - प॒तिः॒ । ए॒व । स॒मा॒नाना᳚म् । भ॒व॒ति॒ । यम् । द्वि॒ष्यात् । तम् । उ॒प॒दध॒दित्यु॑प-दध॑त् । ध्या॒ये॒त् । ए॒ताभ्यः॑ । ए॒व । ए॒न॒म् । दे॒वता᳚भ्यः । एति॑ । वृ॒श्च॒ति॒ । ता॒जक् । आर्ति᳚म् । एति॑ । ऋ॒च्छ॒ति॒ । अङ्गि॑रसः । सु॒व॒र्गमिति॑ सुवः - गम् । लो॒कम् । यन्तः॑ । या । य॒ज्ञ्स्य॑ । निष्कृ॑ति॒रिति॒ निः-कृ॒तिः॒ । आसी᳚त् । ताम् । ऋषि॑भ्य॒ इत्यृषि॑-भ्यः॒ । प्रतीति॑ । औ॒ह॒न्न् । तत् । हिर॑ण्यम् । अ॒भ॒व॒त् । यत् । हि॒र॒ण्य॒श॒ल्कैरिति॑ हिरण्य - श॒ल्कैः । प्रो॒क्षतीति॑ प्र - उ॒क्षति॑ । य॒ज्ञ्स्य॑ । निष्कृ॑त्या॒ इति॒ निः - कृ॒त्यै॒ । अथो॒ इति॑ । भे॒ष॒जम् । ए॒व । अ॒स्मै॒ । क॒रो॒ति॒ ।
पदसंख्या: 50