प्राची॒मनु॑ प्र॒दिशं॒ प्रेहि॑ वि॒द्वानित्या॑ह देवलो॒क-मे॒वैतयो॒पाव॑र्तते॒ क्रम॑द्ध्वम॒ग्निना॒ नाक॒-मित्या॑हे॒माने॒वैतया॑ लो॒कान् क्र॑मते पृथि॒व्या अ॒हमुद॒न्तरि॑क्ष॒मा ऽरु॑ह॒मित्या॑हे॒माने॒वैतया॑ लो॒कान्थ् स॒मारो॑हति॒ सुव॒र्यन्तो॒ नापे᳚क्षन्त॒ इत्या॑ह सुव॒र्गमे॒वैतया॑ लो॒कमे॒त्यग्ने॒ प्रेहि॑ - [ ]
पदपाठः (Word-by-word)
प्राची᳚म् । अन्विति॑ । प्र॒दिश॒मिति॑ प्र-दिश᳚म् । प्रेति॑ । इ॒हि॒ । वि॒द्वान् । इति॑ । आ॒ह॒ । दे॒व॒लो॒कमिति॑ देव - लो॒कम् । ए॒व । ए॒तया᳚ । उ॒पाव॑र्तत॒ इत्यु॑प - आव॑र्तते । क्रम॑द्ध्वम् । अ॒ग्निना᳚ । नाक᳚म् । इति॑ । आ॒ह॒ । इ॒मान् । ए॒व । ए॒तया᳚ । लो॒कान् । क्र॒म॒ते॒ । पृ॒थि॒व्याः । अ॒हम् । उदिति॑ । अ॒न्तरि॑क्षम् । एति॑ । अ॒रु॒ह॒म् । इति॑ । आ॒ह॒ । इ॒मान् । ए॒व । ए॒तया᳚ । लो॒कान् । स॒मारो॑ह॒तीति॑ सं - आरो॑हति । सुवः॑ । यन्तः॑ । न । अपेति॑ । ई॒क्ष॒न्ते॒ । इति॑ । आ॒ह॒ । सु॒व॒र्गमिति॑ सुवः - गम् । ए॒व । ए॒तया᳚ । लो॒कम् । ए॒ति॒ । अग्ने᳚ । प्रेति॑ । इ॒हि॒ ।
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 प्राचीमित्यादि ॥ अग्निना सह चित्यधिश्रयणमन्त्रा एते - 'प्राचीमनु प्रदिशं' इत्याद्याः पञ्च । देवलोकमिति । देवलोकस्थानीयं आहवनीयं 'सु आहवनीय' इत्येतया प्रथमया ऋचा उपावर्तते उपसंप्राप्तुं क्रमते । द्वितीयया लोकान् क्रमते उपगच्छति । वृत्तावात्मनेपदम् । तृतीयया लोकान् समारोहति स्वर्गं प्राप्नोति स्वर्गस्थानीयं वा अग्निमधिरोहति । पञ्चम्या मनुष्यान्देवांश्च चक्षुष्मतः करोति ॥
2 पञ्चभिरिति ॥ पुच्छादारभ्याधिरोहति । पाङ्क्त इति । धानादिपञ्चकसाध्यत्वात् पङ्क्तिप्रभवत्वाद्वा । पङ्क्तिशब्दादुत्सादित्वादञ् । पञ्चत्वान्वयात् पाङ्क्तेन यज्ञेन सह स्वर्गस्थानीयं चित्याग्निं प्राप्नोति । यद्वा - यजनीयोग्निः यज्ञः । तेन सर्वेण सह चितिमारोहति ॥
3 पुरोनुवाक्यामिति ॥ दध्नः पूर्णामौदुम्बरीं स्वयमातृण्णायां जुहोति । तत्र 'नक्तोषासा' इति पुरोनुवाक्यामन्वाह । प्रत्यै इति । द्यावापृथिव्योः प्रस्नवनार्थं प्रदानारम्भः [प्रतिः । तस्यै] प्रत्यै । यथा वत्सला गौः वत्सदर्शनेन ऊधःपूरणात्प्रस्नुतस्तनी भवति यथोक्तम् - 'प्रत्ता वै गौर्दुहे' । एवमग्नेर्दर्शनात् द्यावापृथिव्यौ प्रत्ते क्रियेते अनया पुरोनुवाक्ययेति भावः । ददातेः प्रपूर्वात् 'अच उपसर्गात्तः' इति तादेशः । 'तादौ च' इति गतेः प्रकृतिस्वरत्वम् ॥
4 अथ अग्ने सहस्राक्षेति तत्रैव याज्या ॥ साहस्र इति । सहस्रपरिमाणः सहस्रप्राप्तिहेतुर्वा । प्रजानां पाता अग्निः प्रजापतिः । तस्मात्सहस्रान्वयादियं याज्या तादृशस्याग्नेः प्राप्त्यै भवति । 'शतमानविंशतिक' इत्यण् ॥
5 दध्न इति ॥ 'पूरणगुण' इति समासप्रतिषेधात् पूरणार्थैर्योगे षष्ठी ज्ञापिता । औदुम्बरीस्थं दध्यभेदेनोच्यते । ऊर्क् रसः असौ द्यौः । अमुत इति । अमुतो द्युलोकादर्वाचीमधः पतन्तीं वृष्टिमुपाश्रित्य जीवामः ॥
6 तिसृभिरित्यादि ॥ 'सुपर्णोसि' इत्यादिभिः तिसृभिस्स्वयमातृण्णामध्यस्थमग्निं प्रतिष्ठापयति । त्रिवृदित्यादि । गतम् ॥
7 औदुम्बरीमिति ॥ तस्मिन्नग्नौ अन्नमुदुम्बरीं समिधमादधाति । एषा वा इत्यादि । उपमानपदमिदं यादृशमग्निचिल्लभते । यद्वा - अग्निचित् अग्निं दुग्धे अग्निसकाशात्सर्वाण्यभिमतानि लभते । दुह प्रपूरणे, प्रपूरणं रेचनम् । तत्राग्निना दुह्यमानः अग्निचित् अग्निचिता दुह्यमानो हि स्वमहिम्नाऽऽरोपितः पुनःपुनराप्यायत इति विशेषः । 'लोपस्त आत्मनेपदेषु' इति तलोपः । 'चवायोगे प्रथमा' इति प्रथमा तिङ्विभक्तिर्न निहन्यते ॥
8 एष वा इति ॥ एष मन्त्रोऽग्नेः । अस्येते कर्मणि षष्ठी । तमिममग्नेर्दोहमन्त्रं कण्वः श्रयसः पुत्रोऽवेत् । कथमवगम्यते सोऽवेदित्यत्राह - स खलु कण्वः एनमग्निं तेनानेन मन्त्रेण दुहे दुग्धे । पूर्ववल्ल्यब्लोपश्च । यदेतयेत्यादि । गतम् ॥
9 सप्त ते अग्न इति ॥ आज्यस्य पूर्णां स्रुचं जुहोति । सप्तैवेति । सप्त प्रमाणानि सप्त भवन्त्यग्नेः समिदादि, तानि प्रीणाति अनेन मन्त्रेण होमात्तत्र समिन्धनहेतवः सप्त मरुतः सप्त छन्दांसि वा जिह्वाजा ऋषयः प्रीयमाणाः । प्रियाणि धामानि आहवनीयादीनि धिष्ण्यनामानि वासस्थानानि । होत्रादयो वषट्कर्तारो होत्राः सप्त । यागविधा अग्निष्टोमादयः सप्त संस्था यान्यग्न्युत्पत्तिस्थानानि भूरादीनि । सप्तशब्द उत्सादिर्द्रष्टव्यः । 'सप्तनोऽञ् छन्दसि' इति अञो विधिः । पूर्णयेति । व्याख्यातम् । वर्णकृतपूर्णत्वन्यूनत्वाश्रयणेन । इह तु तदभावात् स्वर्गविषयं द्रष्टव्यम् ॥
10 अग्निर्देवेभ्य इत्यादि ॥ निलायत निरगच्छत् । 'उपसर्गस्यायतौ' इति लत्वम् । जुह्वदिति । दध्नः पूर्णामौदुम्बरिं पूर्णामाज्यस्य पूर्णां स्रुचं द्वितीयामेवेति केचित् ॥
11 दध्नेत्यादि ॥ एवमुक्तेन प्रकारेण अग्निनिधानात् पूर्वं दध्ना जुहोति इष्ट्वाऽऽज्येन समीची इति सम्मुखे तस्य स्थापयति । 'चौ' इति पूर्वपदस्य दीर्घत्वम्, अन्तोदात्तत्वं च ॥
12 द्वादशकपाल इत्यादि ॥ गतम् ॥
13 यदित्यादि ॥ वैश्वानरस्य प्रयाजानुयाजान् कुर्यात् सा विकस्तिः विनाशस्स्यात् यज्ञस्य क्रतोः । तस्माद्दर्विहोमं करोति प्रयाजादिराश्रावणं च यत्र नास्ति स दर्विहोमः । इह तु 'उच्चैर्वैश्वानरस्याश्रावयति' इति वक्ष्यमाणत्वात् प्रयाजाद्यभावमात्रेण दर्विहोमत्वम् ॥
14 राष्ट्रं वा इति ॥ वैश्वानरस्याग्नेः सर्वत्रान्तर्बहिश्च भावात् जनसमुदायात्मनां राष्ट्राणां तादर्थ्यात्ताच्छब्द्यम् । विण्मरुत इति । विशः कुटुम्ब्यः प्रजा जातावेकवचनम् । तत्स्थानीया मरुतः राष्ट्रात्मनो वैश्वानरस्य उद्दीपकत्वात् । तस्माति वैश्वानरं हुत्वा मारुतान् सप्तकपालान् जुहोति । राष्ट्रे एव विशमनुबध्नाति । अनुक्रमेण स्थापयति ॥
15 उच्चैरित्यादि ॥ वैश्वानरस्य उच्चैस्त्वान्वयात् तदात्मकं राष्ट्रमुच्चैर्भावेन वर्तमानं मारुतानां नीचैस्त्वान्वयेन नीचैस्त्वेन वर्तमाना मरुदात्मिका प्रकृतिरतिवदति प्रभुत्वेनावभम् ? ॥
16 मारुता इत्यादि ॥ गतम् । देवविशेनेति । अमुमिति । योगविभागादच् समासान्तः ॥
17 सप्त इत्यादि ॥ गतम् । गणश इति । 'बहुगणवतुडति सङ्ख्या' इति सङ्ख्यात्वात् 'सङ्ख्यैकवचनाच्च' इति शस् ॥
18 गणेनेति ॥ अत्र सप्तकः सप्तमरुद्गणा मन्त्राः 'ईदृङ्च' इत्यादयः चत्वारः । ततः आरण्येऽनुवाक्ये द्वौ गणौ 'धुनिश्च' इत्याद्यौ । राजसूयिका 'उग्रश्च धुनिश्च' इत्याद्यौ । द्वितीय अग्निश्चित्यः 'सृतया' इत्यादिसप्तमो गणश्शाखान्तरीयः । 'ईदृक्षास एतादृक्षासः' इत्यादिरान्तादनुवाकस्य प्रतिगणमनुषज्यते । तत्र गणेन जुहोति याज्यास्थानीयेन गणमनुद्रुत्य पूर्वस्य गणस्य वा याज्यतामुत्तरस्य पुरोनुवाक्यतां वा कृत्वेत्यर्थः । केचिदाहुः - 'ईदृङ्च' इत्याद्याश्चत्वारो गणाः । 'ईदृक्षासः' इत्यादिजगत्या द्वावर्धर्चौ । आरण्योऽनुवाक्यो गणचतुर्थ इति । अन्ये तु ब्रुवते - तेषामारण्योऽनुवाक्यश्चतुर्थश्शाखान्तरीयस्तु षष्ठः । जगत्या वा प्रथमर्चं सप्तमं शिष्टं सर्वेष्वनुषज्यत इति । अनुवर्त्मानमिति । राष्ट्रविधेयतामित्यर्थः ॥
इति पञ्चमे चतुर्थे सप्तमोनुवाकः ॥