प्रथ॒मो दे॑वय॒ता-मित्या॑हो॒भये᳚ष्वे॒वैतया॑ देवमनु॒ष्येषु॒ चक्षु॑र्दधाति प॒ञ्चभि॒रधि॑ क्रामति॒ पाङ्क्तो॑ य॒ज्ञो यावा॑ने॒व य॒ज्ञ्स्तेन॑ स॒ह सु॑व॒र्गं ॅलो॒कमे॑ति॒ नक्तो॒षासेति॑ पुरोऽनुवा॒क्या॑मन्वा॑ह॒ प्रत्या॒ अग्ने॑ सहस्रा॒क्षेत्या॑ह साह॒स्रः प्र॒जाप॑तिः प्र॒जाप॑ते॒राप्त्यै॒ तस्मै॑ ते विधेम॒ वाजा॑य॒ स्वाहेत्या॒हान्नं॒ ॅवै वाजोऽन्न॑मे॒वाव॑ - [ ]
पदपाठः (Word-by-word)
प्र॒थ॒मः । दे॒व॒य॒तामिति॑ देव - य॒ताम् । इति॑ । आ॒ह॒ । उ॒भये॑षु । ए॒व । ए॒तया᳚ । दे॒व॒म॒नु॒ष्येष्विति॑ देव - म॒नु॒ष्येषु॑ । चक्षुः॑ । द॒धा॒ति॒ । प॒ञ्चभि॒रिति॑ प॒ञ्च - भिः॒ । अधीति॑ । क्रा॒म॒ति॒ । पाङ्क्तः॑ । य॒ज्ञ्ः । यावान्॑ । ए॒व । य॒ज्ञ्ः । तेन॑ । स॒ह । सु॒व॒र्गमिति॑ सुवः - गम् । लो॒कम् । ए॒ति॒ । नक्तो॒षासा᳚ । इति॑ । पु॒रो॒नु॒वा॒क्या॑मिति॑ पुरः - अ॒नु॒वा॒क्या᳚म् । अन्विति॑ । आ॒ह॒ । प्रत्यै᳚ । अग्ने᳚ । स॒ह॒स्रा॒क्षेति॑ सहस्र - अ॒क्ष॒ । इति॑ । आ॒ह॒ । सा॒ह॒स्रः । प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । प्र॒जाप॑ते॒रिति॑ प्र॒जा - प॒तेः॒ । आप्त्यै᳚ । तस्मै᳚ । ते॒ । वि॒धे॒म॒ । वाजा॑य । स्वाहा᳚ । इति॑ । आ॒ह॒ । अन्न᳚म् । वै । वाजः॑ । अन्न᳚म् । ए॒व । अवेति॑ ।