रुन्धे द॒द्ध्नः पू॒र्णामौदु॑म्बरीꣳ स्वयमातृ॒ण्णायां᳚ जुहो॒त्यूर्ग्वै दद्ध्यूर्गु॑दु॒म्बरो॒ऽसौ स्व॑यमातृ॒ण्णा ऽमुष्या॑मे॒वोर्जं॑ दधाति॒ तस्मा॑द॒मुतो॒ऽर्वाची॒मूर्ज॒मुप॑ जीवामस्ति॒सृभिः॑ सादयति त्रि॒वृद्वा अ॒ग्निर्यावा॑ने॒वाग्निस्तं प्र॑ति॒ष्ठां ग॑मयति॒ प्रेद्धो॑ अग्ने दीदिहि पु॒रो न॒ इत्यौदु॑म्बरी॒मा द॑धात्ये॒षा वै सू॒र्मी कर्ण॑कावत्ये॒तया॑ ह स्म॒ - [ ]
पदपाठः (Word-by-word)
रु॒न्धे॒ । द॒द्ध्नः । पू॒र्णाम् । औदु॑बंरीम् । स्व॒य॒मा॒तृ॒ण्णाया॒मिति॑ स्वयं - आ॒तृ॒ण्णाया᳚म् । जु॒हो॒ति॒ । ऊर्क् । वै । दधि॑ । ऊर्क् । उ॒दु॒बंरः॑ । अ॒सौ । स्व॒य॒मा॒तृ॒ण्णेति॑ स्वयं - आ॒तृ॒ण्णा । अ॒मुष्या᳚म् । ए॒व । ऊर्ज᳚म् । द॒धा॒ति॒ । तस्मा᳚त् । अ॒मुतः॑ । अ॒र्वाची᳚म् । ऊर्ज᳚म् । उपेति॑ । जी॒वा॒मः॒ । ति॒सृभि॒रिति॑ ति॒सृ - भिः॒। सा॒द॒य॒ति॒ । त्रि॒वृदिति॑ त्रि - वृत् । वै । अ॒ग्निः । यावान्॑ । ए॒व । अ॒ग्निः । तम् । प्र॒ति॒ष्ठामिति॑ प्रति-स्थाम् । ग॒म॒य॒ति॒ । प्रेद्ध॒ इति॒ प्र - इ॒द्धः॒ । अ॒ग्ने॒ । दी॒दि॒हि॒ । पु॒रः । नः॒ । इति॑ । औदु॑बंरीम् । एति॑ । द॒धा॒ति॒ । ए॒षा । वै । सू॒र्मी । कर्ण॑काव॒तीति॒ कर्ण॑क - व॒ति॒ । ए॒तया᳚ । ह॒ । स्म॒ ।