अन्न॑स्य रू॒पꣳ रू॒पेणै॒वान्न॒मव॑ रुन्धे॒ ऽग्निश्च॑ म॒ आप॑श्च म॒ इत्या॑है॒षा वा अन्न॑स्य॒ योनिः॒ सयो᳚न्ये॒वान्न॒मव॑ रुन्धे-ऽर्द्धे॒न्द्राणि॑ जुहोति दे॒वता॑ ए॒वाव॑ रुन्धे॒ यथ् सर्वे॑षा-म॒र्द्धमिन्द्रः॒ प्रति॒ तस्मा॒दिन्द्रो॑ दे॒वता॑नां भूयिष्ठ॒भाक्त॑म॒ इन्द्र॒मुत्त॑रमाहे-न्द्रि॒यमे॒वास्मि॑-न्नु॒परि॑ष्टाद् दधाति यज्ञायु॒धानि॑ जुहोति य॒ज्ञो - [ ]
पदपाठः (Word-by-word)
अन्न॑स्य । रू॒पम् । रू॒पेण॑ । ए॒व । अन्न᳚म् । अवेति॑ । रु॒न्धे॒ । अ॒ग्निः । च॒ । मे॒ । आपः॑ । च॒ । मे॒ । इति॑ । आ॒ह॒ । ए॒षा । वै । अन्न॑स्य । योनिः॑ । सयो॒नीति॒ स - यो॒नि॒ । ए॒व । अन्न᳚म् । अवेति॑ । रु॒न्धे॒ । अ॒द्र्धे॒न्द्राणीत्य॑द्र्ध - इ॒न्द्राणि॑ । जु॒हो॒ति॒ । दे॒वताः᳚ । ए॒व । अवेति॑ । रु॒न्धे॒ । यत् । सर्वे॑षाम् । अ॒द्र्धम् । इन्द्रः॑ । प्रतीति॑ । तस्मा᳚त् । इन्द्रः॑ । दे॒वता॑नाम् । भू॒यि॒ष्ठ॒भाक्त॑म॒ इति॑ भूयिष्ठ॒भाक्-त॒मः॒ । इन्द्र᳚म् । उत्त॑र॒मित्युत् -त॒र॒म् । आ॒ह॒ । इ॒न्द्रि॒यम् । ए॒व । अ॒स्मि॒न्न् । उ॒परि॑ष्टात् । द॒धा॒ति॒ । य॒ज्ञा॒यु॒धानीति॑ यज्ञ्-आ॒यु॒धानि॑ । जु॒हो॒ति॒ । य॒ज्ञ्ः ।