आ द॑दे॒ ग्रावा᳚ऽ*स्यद्ध्वर॒कृद् दे॒वेभ्यो॑ गंभी॒रमि॒म- म॑द्ध्व॒रं कृ॑द्ध्युत्त॒मेन॑ प॒विनेन्द्रा॑य॒ सोमꣳ॒॒ सुषु॑तं॒ मधु॑मन्तं॒ पय॑स्वन्तं ॅवृष्टि॒वनि॒मिन्द्रा॑य त्वा वृत्र॒घ्न इन्द्रा॑य त्वा वृत्र॒तुर॒ इन्द्रा॑य त्वाऽभिमाति॒घ्न इन्द्रा॑य त्वाऽऽदि॒त्यव॑त॒ इन्द्रा॑य त्वा वि॒श्वदे᳚व्यावते श्वा॒त्राः स्थ॑ वृत्र॒तुरो॒ राधो॑गूर्ता अ॒मृत॑स्य॒ पत्नी॒स्ता दे॑वीर् देव॒त्रेमं ॅय॒ज्ञ्ं ध॒त्तोप॑हूताः॒ सोम॑स्य पिब॒तोप॑हूतो यु॒ष्माकꣳ॒॒ - [ ]
पदपाठः (Word-by-word)
एति॑ । द॒दे॒ । ग्रावा᳚ । अ॒सि॒ । अ॒द्ध्व॒र॒कृदित्य॑द्ध्वर - कृत् । दे॒वेभ्यः॑ । ग॒भीं॒रम् । इ॒मम् । अ॒द्ध्व॒रम् । कृ॒धि॒ । उ॒त्त॒मेनेत्यु॑त् - त॒मेन॑ । प॒विना᳚ । इन्द्रा॑य । सोम᳚म् । सुषु॑त॒मिति॒ सु - सु॒त॒म् । मधु॑मन्त॒मिति॒ मधु॑ - म॒न्त॒म् । पय॑स्वन्तम् । वृ॒ष्टि॒वनि॒मिति॑ वृष्टि - वनि᳚म् । इन्द्रा॑य । त्वा॒ । वृ॒त्र॒घ्न इति॑ वृत्र - घ्ने । इन्द्रा॑य । त्वा॒ । वृ॒त्र॒तुर॒ इति॑ वृत्र - तुरे᳚ । इन्द्रा॑य । त्वा॒ । अ॒भि॒मा॒ति॒घ्न इत्य॑भिमाति - घ्ने । इन्द्रा॑य । त्वा॒ । आ॒दि॒त्यव॑त॒ इत्या॑दि॒त्य - व॒ते॒ । इन्द्रा॑य । त्वा॒ । वि॒श्वदे᳚व्यावत॒ इति॑ वि॒श्वदे᳚व्य - व॒ते॒ । श्वा॒त्राः । स्थ॒ । वृ॒त्र॒तुर॒ इति॑ वृत्र - तुरः॑ । राधो॑गूर्ता॒ इति॒ राधः॑ - गू॒र्ताः॒ । अ॒मृत॑स्य । पत्नीः᳚ । ताः । दे॒वीः॒ । दे॒व॒त्रेति॑ देव - त्रा । इ॒मम् । य॒ज्ञ्म् । ध॒त्त॒ । उप॑हूता॒ इत्युप॑ - हू॒ताः॒ । सोम॑स्य । पि॒ब॒त॒ । उप॑हूत॒ इत्युप॑-हू॒तः॒ । यु॒ष्माक᳚म् ।