आप॑ उन्दन्तु जी॒वसे॑ दीर्घायु॒त्वाय॒ वर्च॑स॒ ओष॑धे॒ त्राय॑स्वैनꣳ॒॒ स्वधि॑ते॒ मैनꣳ॑ हिꣳसीर् देव॒श्रूरे॒तानि॒ प्र व॑पे स्व॒स्त्युत्त॑राण्यशी॒यापो॑ अ॒स्मान् मा॒तरः॑ शुन्धन्तु घृ॒तेन॑ नो घृत॒पुवः॑ पुनन्तु॒ विश्व॑म॒स्मत् प्र व॑हन्तु रि॒प्रमुदा᳚भ्यः॒ शुचि॒रा पू॒त ए॑मि॒ सोम॑स्य त॒नूर॑सि त॒नुवं॑ मे पाहि मही॒नां पयो॑ऽसि वर्चो॒धा अ॑सि॒ वर्चो॒ - [ ]
पदपाठः (Word-by-word)
आपः॑ । उ॒न्द॒न्तु॒ । जी॒वसे᳚ । दी॒र्घा॒यु॒त्वायेति॑ दीर्घायु - त्वाय॑ । वर्च॑से । ओष॑धे । त्राय॑स्व । ए॒न॒म् । स्वधि॑त॒ इति॒ स्व-धि॒ते॒ । मा । ए॒न॒म् । हिꣳ॒॒सीः॒ । दे॒व॒श्रूरिति॑ देव - श्रूः । ए॒तानि॑ । प्रेति॑ । व॒पे॒ । स्व॒स्ति । उत्त॑रा॒णीत्युत् - त॒रा॒णि॒ । अ॒शी॒य॒ । आपः॑ । अ॒स्मान् । मा॒तरः॑ । शु॒न्ध॒न्तु॒ । घृ॒तेन॑ । नः॒ । घृ॒त॒पुव॒ इति॑ घृत-पुवः॑ । पु॒न॒न्तु॒ । विश्व᳚म् । अ॒स्मत् । प्रेति॑ । व॒ह॒न्तु॒ । रि॒प्रम् । उदिति॑ । आ॒भ्यः॒ । शुचिः॑ । एति॑ । पू॒तः । ए॒मि॒ । सोम॑स्य । त॒नूः । अ॒सि॒ । त॒नुव᳚म् । मे॒ । पा॒हि॒ । म॒ही॒नाम् । पयः॑ । अ॒सि॒ । व॒र्चो॒धा इति वर्चः - धाः । अ॒सि॒ । वर्चः॑ ।