सं त्वा॑ सिञ्चामि॒ यजु॑षा प्र॒जामायु॒र्द्धनं॑ च । बृह॒स्पति॑प्रसूतो॒ यज॑मान इ॒ह मा रि॑षत् ॥ आज्य॑मसि स॒त्यम॑सि स॒त्यस्याद्ध्य॑क्षमसि ह॒विर॑सि वैश्वान॒रं ॅवै᳚श्वदे॒व-मुत्पू॑तशुष्मꣳ स॒त्यौजाः॒ सहो॑ऽसि॒ सह॑मानमसि॒ सह॒स्वारा॑तीः॒ सह॑स्वारातीय॒तः सह॑स्व॒ पृत॑नाः॒ सह॑स्व पृतन्य॒तः । स॒हस्र॑वीर्यमसि॒ तन्मा॑ जि॒न्वाज्य॒स्याज्य॑मसि स॒त्यस्य॑ स॒त्यम॑सि स॒त्यायु॑ - [ ]
पदपाठः (Word-by-word)
समिति॑ । त्वा॒ । सि॒ञ्चा॒मि॒ । यजु॑षा । प्र॒जामिति॑ प्र-जाम् । आयुः॑ । धन᳚म् । च॒ ॥ बृह॒स्पति॑ प्रसूत॒ इति॒ बृह॒स्पति॑ - प्र॒सू॒तः॒ । यज॑मानः । इ॒ह । मा । रि॒ष॒त् ॥ आज्य᳚म् । अ॒सि॒ । स॒त्यम् । अ॒सि॒ । स॒त्यस्य॑ । अद्ध्य॑क्ष॒मित्यधि॑ - अ॒क्ष॒म् । अ॒सि॒ । ह॒विः । अ॒सि॒ । वै॒श्वा॒न॒रम् । वै॒श्व॒दे॒वमिति॑ वैश्व - दे॒वम् । उत्पू॑तशुष्म॒मित्युत्पू॑त - शु॒ष्म॒म् । स॒त्यौजा॒ इति॑ स॒त्य-ओ॒जाः॒ । सहः॑ । अ॒सि॒ । सह॑मानम् । अ॒सि॒ । सह॑स्व । अरा॑तीः । सह॑स्व । अ॒रा॒ती॒य॒तः । सह॑स्व । पृत॑नाः । सह॑स्व । पृ॒त॒न्य॒तः । स॒हस्र॑वीर्य॒मिति॑ स॒हस्र॑-वि॒र्य॒म् । अ॒सि॒ । तत् । मा॒ । जि॒न्व॒ । आज्य॑स्य । आज्य᳚म् । अ॒सि॒ । स॒त्यस्य॑ । स॒त्यम् । अ॒सि॒ । स॒त्यायु॒रिति॑ स॒त्य - आ॒युः॒ ।