पा॒क॒य॒ज्ञ्ं ॅवा अन्वाहि॑ताग्नेः प॒शव॒ उप॑ तिष्ठन्त॒ इडा॒ खलु॒ वै पा॑कय॒ज्ञ्ः सैषाऽन्त॒रा प्र॑याजानूया॒जान्. यज॑मानस्य लो॒केऽव॑हिता॒ तामा᳚ह्रि॒यमा॑णाम॒भि म॑न्त्रयेत॒ सुरू॑पवर्.षवर्ण॒ एहीति॑ प॒शवो॒ वा इडा॑ प॒शूने॒वोप॑ ह्वयते य॒ज्ञ्ं ॅवै दे॒वा अदु॑ह्रन्. य॒ज्ञोऽसु॑राꣳ अदुह॒त् तेऽसु॑रा ॒ज्ञ्दु॑ग्धाः॒ परा॑ऽभव॒न्॒. यो वै य॒ज्ञ्स्य॒ दोहं॑ ॅवि॒द्वान् - [ ]
पदपाठः (Word-by-word)
पा॒क॒य॒ज्ञ्मिति॑ पाक - य॒ज्ञ्म् । वै । अन्विति॑ । आहि॑ताग्ने॒रित्याहि॑त - अ॒ग्नेः॒ । प॒शवः॑ । उपेति॑ । ति॒ष्ठ॒न्ते॒ । इडा᳚ । खलु॑ । वै । पा॒क॒य॒ज्ञ् इति॑ पाक - य॒ज्ञ्ः । सा । ए॒षा । अ॒न्त॒रा । प्र॒या॒जा॒नू॒या॒जानिति॑ प्रयाज - अ॒नू॒या॒जान् । यज॑मानस्य । लो॒के । अव॑हि॒तेयव॑ - हि॒ता॒ । ताम् । आ॒ह्रि॒यमा॑णा॒मित्या᳚ - ह्रि॒यमा॑णाम् । अ॒भीति॑ । म॒न्त्र॒ये॒त॒ । सुरू॑पवर्.षवर्ण॒ इति॒ सुरू॑प -व॒र्॒.ष॒व॒र्णे॒ । एति॑ । इ॒हि॒ । इति॑ । प॒शवः॑ । वै । इडा᳚ । प॒शून् । ए॒व । उपेति॑ । ह्व॒य॒ते॒ । य॒ज्ञ्म् । वै । दे॒वाः । अदु॑ह्रन्न् । य॒ज्ञ्ः । असु॑रान् । अ॒दु॒ह॒त् । ते । असु॑राः । य॒ज्ञ्दु॑ग्धा॒ इति॑ य॒ज्ञ् - दु॒ग्धाः॒ । परेति॑ । अ॒भ॒व॒न्न् । यः । वै । य॒ज्ञ्स्य॑ । दोह᳚म् । वि॒द्वान् ।