दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे᳚ऽश्विनो᳚र् बा॒हुभ्यां᳚ पू॒ष्णो हस्ता᳚भ्या॒मा द॒देऽभ्रि॑रसि॒ नारि॑रसि॒ परि॑लिखितꣳ॒॒ रक्षः॒ परि॑लिखिता॒ अरा॑तय इ॒दम॒हꣳ रक्ष॑सो ग्री॒वा अपि॑ कृन्तामि॒ यो᳚ऽस्मान् द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्म इ॒दम॑स्य ग्री॒वा अपि॑ कृन्तामि दि॒वे त्वा॒ऽन्तरि॑क्षाय त्वा पृथि॒व्यै त्वा॒ शुन्ध॑तां ॅलो॒कः पि॑तृ॒षद॑नो॒ यवो॑ऽसि य॒वया॒स्मद् द्वेषो॑ - [ ]
पदपाठः (Word-by-word)
दे॒वस्य॑ । त्वा॒ । स॒वि॒तुः । प्र॒स॒व इति॑ प्र - स॒वे । अ॒श्विनोः᳚ । बा॒हुभ्या॒मिति॑ बा॒हु - भ्या॒म् । पू॒ष्णः । हस्ता᳚भ्याम् । एति॑ । द॒दे॒ । अभ्रिः॑ । अ॒सि॒ । नारिः॑ । अ॒सि॒ । परि॑लिखित॒मिति॒ परि॑ - लि॒खि॒त॒म् । रक्षः॑ । परि॑लिखिता॒ इति॒ परि॑ - लि॒खि॒ताः॒ । अरा॑तयः । इ॒दम् । अ॒हम् । रक्ष॑सः । ग्री॒वाः । अपीति॑ । कृ॒न्ता॒मि॒ । यः । अ॒स्मान् । द्वेष्टि॑ । यम् । च॒ । व॒यम् । द्वि॒ष्मः । इ॒दम् । अ॒स्य॒ । ग्री॒वाः । अपीति॑ । कृ॒न्ता॒मि॒ । दि॒वे । त्वा॒ । अ॒न्तरि॑क्षाय । त्वा॒ । पृ॒थि॒व्यै । त्वा॒ । शुन्ध॑ताम् । लो॒कः । पि॒तृ॒षद॑न॒ इति॑ पितृ - सद॑नः । यवः॑ । अ॒सि॒ । य॒वय॑ । अ॒स्मत् । द्वेषः॑ ।