दे॒वा॒सु॒राः संॅय॑त्ता आस॒न्ते दे॒वा वि॑ज॒यमु॑प॒यन्तो॒ ऽग्नौ वा॒मं ॅवसु॒ सं न्य॑दधते॒दमु॑ नो भविष्यति॒ यदि॑ नो जे॒ष्यन्तीति॒ तद॒ग्निर्न्य॑कामयत॒ तेनापा᳚*क्राम॒त् तद्दे॒वा वि॒जित्या॑*व॒रुरु॑थ्समाना॒ अन्वा॑य॒न् तद॑स्य॒ सह॒साऽऽ*दि॑थ्सन्त॒ सो॑ ऽरोदी॒द्यदरो॑दी॒त् तद् रु॒द्रस्य॑ रुद्र॒त्वं ॅयदश्व्रशी॑यत॒ तद्- [ ]
पदपाठः (Word-by-word)
दे॒वा॒सु॒रा इति॑ देव - अ॒सु॒राः । संॅय॑त्ता॒ इति॑ सं - य॒त्ताः॒ । आ॒स॒न्न् । ते । दे॒वाः । वि॒ज॒यमिति॑ वि - ज॒यम् । उ॒प॒यन्त॒ इत्यु॑प - यन्तः॑ । अ॒ग्नौ । वा॒मम् । वसु॑ । सम् । नीति॑ । अ॒द॒ध॒त॒ । इ॒दम् । उ॒ । नः॒ । भ॒वि॒ष्य॒ति॒ । यदि॑ । नः । जे॒ष्यन्ति॑ । इति॑ । तत् । अ॒ग्निः । नीति॑ । अ॒का॒म॒य॒त॒ । तेन॑ । अपेति॑ । अ॒क्रा॒म॒त् । तत् । दे॒वाः । वि॒जित्येति॑ वि - जित्य॑ । अ॒व॒रुरु॑थ्समाना॒ इत्य॑व - रुरु॑थ्समानाः । अन्विति॑ । आ॒य॒न्न् । तत् । अ॒स्य॒ । सह॑सा । एति॑ । अ॒दि॒थ्स॒न्त॒ । सः । अ॒रो॒दी॒त् । यत् । अरो॑दीत् । तत् । रु॒द्रस्य॑ । रु॒द्र॒त्वमिति॑ रुद्र - त्वम् । यत् । अश्रु॑ । अशी॑यत । तत् ।