प॒रे॒यु॒वाꣳस॑म् प्र॒वतो॑ म॒हीरनु॑ ब॒हुभ्यः॒ पन्था॑मनपस्पशा॒नम् । वै॒व॒स्व॒तꣳ स॒ङ्गम॑न॒म् जना॑नाम् ॅय॒मꣳ राजा॑नꣳ ह॒विषा॑ दुवस्यत ॥ इ॒दम् त्वा॒ वस्त्र॑म् प्रथ॒मं न्वाग॒न्नपै॒तदू॑ह॒ यदि॒हाबि॑भः पु॒रा । इ॒ष्टा॒पू॒र्तमनु॒ संप॑श्य॒ दक्षि॑णा॒म् ॅयथा॑ ते द॒त्तम् ब॑हु॒धा वि ब॑न्धुषु ॥ इ॒मौ यु॑नज्मि ते व॒ह्नी असु॑नीथाय वो॒ढवे᳚ । याभ्या᳚म् ॅय॒मस्य॒ साद॑नꣳ सु॒कृता॒म् चापि॑ गच्छतात् ॥ पू॒षा त्वे॒तश्च्या॑वयतु॒ प्रवि॒द्वा-नन॑ष्टपशु॒र्-भुव॑नस्य गो॒पाः । स त्वै॒तेभ्यः॒ परि॑ददात् पि॒तृभ्यो॒ऽग्निर्दे॒वेभ्यः॑ सुवि॒दत्रे᳚भ्यः ॥ पू॒षेमा आशा॒ अनु॑वेद॒ सर्वाः॒ सो अ॒स्माꣳ अभ॑यतमेन नेषत् । स्व॒स्ति॒दा अघृ॑णिः॒ सर्व॑वी॒रो-ऽप्र॑युच्छन्पु॒र ए॑तु॒ प्रवि॒द्वान् ।
कोर्वै (Index)
(वि॒द्वा-न॒भ्याव॑वृथ्स्वा॒ - भिमा॑तीर्जयेम॒ - शरी᳚रैश्च॒त्वारि॑ च )